पृष्ठम्:Prabandhaprakasha.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
किमस्माभिः स्त्रीभिः पुरुषाणां वो वदनविवरादादनकवल-
माच्छिद्य गृह्यते, होस्वित् पाकोन्मुखाना शालिकलमानां
क्षेत्रेषु पुनरप्यकाण्डे हलसवार: क्रियते यद् हन्त आश्रिता
अपि वयं युष्माकं दहनदृष्टौ निपतिताः । जीवानां पुरुषत्वेन
स्त्रीत्वेन वा जन्मग्रहणं नाम न जातु तदायत्तम्, कर्म वा ईश्वरो
वात्र प्रभवति । एवञ्च कोऽयमस्माकमपराधो येनापत्यत्वे समा-
नेऽपि तनय एव पितुः स्नेहसर्वस्वमधिकरोति, न तु कन्यका ।
पुत्रजन्मनि पितुर्हर्षातिशय: शरीरेऽपि न मीयते, कन्योत्पत्तौ
तु वज्रणेव तस्य मस्तकं पोड्यते, दिश: शून्या: प्रतिभान्ति, जगश्च
सर्व विषादपरिपूरितमिव दृश्यते । पृथिव्यपि कन्यकाया
भारेण सार्द्धत्रिहस्तमधोगच्छतीति वदन्ति । किमुच्यते, कन्य
काया मृत्युरपि पितुर्हर्षायैव सम्पद्यत इत्यपि पश्यामः । अहो
कष्टम् गृहपालितस्य कस्यचिद् विहङ्गस्यापि कुक्कुरस्यापि च
मरणं गृहाधिपते: कातर्थ्य दृश्यते, न तु कन्यकानां मरणे !
तिर्यग्भ्योऽपि कन्यकानां जीवितं हेयतरम् |
,
-
सम्पादक महाशय, अस्मान् प्रति पुरुषाणां यदतितमां
विद्वेषो न तत्र प्रमाणाभावः । शास्त्रमिदं सर्व तेषामेव वशं-
वदम् । • यस्य कस्याप्येकस्य ग्रन्थस्य यत् किमध्येकं पत्रमु-
द्घाट्य दृश्यताम् तत्रैवास्माकं हृदयमर्मभेदिना निन्दावादश
उपलभ्येरन् । आवेदमासाहित्यं च सर्वत्रैवास्माकं विगानम् ।
क्ष नेत्रमुन्मील्य दृश्यताम्- ऐतरेय ब्राह्मणे महता प्रबन्धेन
पुत्राणां गुणराशिमुपवर्ण्य व्यर्थमेवास्माकं कन्यकानां हृदये सपदि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/१०१&oldid=355399" इत्यस्माद् प्रतिप्राप्तम्