पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये परमेति । सकलभयानां संसारदुःखस्यापि विनेत्रीं विनयनमुपशमं कर्त्री समू- लोन्मूलनीमियर्थः । सर्वकामानभीष्टार्थानुपनयति प्रापयतीति सर्वकामोपनेत्री, ताम् । दृढं निश्चयेन । तत् तस्माद् यस्माद् भयनिवृत्तयेऽभीष्टप्राप्त्यै च त्वद्भक्तिरेव प्रार्थनीयेति निस्संशयं त्वयोक्तं, तस्मादित्यर्थः । उपाधत्स्व सङ्क्रामय । भक्ति प्रेमलक्षणाम् ॥ १० ॥ ८३ ॥ इति कपिलोपाख्यानं पञ्चदशं दशकम् । इति नारायणीयस्तोत्रव्याख्यायां भक्तप्रियाख्यायां तृतीय स्कन्धपरिच्छेदः । आदितः लोकसङ्ख्या १५८. [स्कन्धः - ३ COM