पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुर्थस्कन्धपरिच्छेदः । महदादेः प्रजेशानां ब्रह्माण्डस्य च सम्भवः । सर्गलीलोदिता विष्णोर्विसर्गोऽथ निरूप्यते || अथ विसर्गोपयोगिनरनारायणावतारचरितप्रस्तावाय दक्षपरिणयनाद्याह दक्षो विञ्चितनयोऽथ मनोस्तनूजां लब्ध्वा प्रसूतिमिह षोडश चाप कन्याः | धर्मे त्रयोदश ददौ पितृषु स्वधां च स्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे || १ || दक्ष इति । कथान्तरारम्भार्थोऽथशब्दः | मनोः स्वायम्भुवस्य । इह प्रसू- तिसंज्ञायां स्वभार्यायाम् । धर्मे धर्मदेवाय त्रयोदश मैन्याद्याः पुत्रीः । पितृषु पितृभ्यो युक्तेभ्यः स्वधाम् | त्वदंशे त्वत्स्वरूपे ॥ १ ॥ मूर्तिहिं धर्मगृहिणी सुषुवे भवन्तं नारायणं नरसखं महितानुभावम् | यज्जन्मनि प्रमुदिताः कृततूर्यघोषाः पुष्पोत्करान प्रववृषुर्नुनुवुः सुरौघाः ॥ २ ॥ ma मूर्तिरिति । मूर्ति: धर्मगृहिणीष्ववरजा भवन्तं नारायणं नरसखमिति विष्णोरंश भूतो नरनारायणौ सुषुवे जनयामास ॥ २ ॥ दैत्यं सहस्रकवचं कवचैः परीतं साहस्रवत्सरतपस्समराभिलव्यैः । पर्यायनिर्मिततपस्समरौ भवन्तौ शिष्टैककङ्कटममुं न्यहतां सलीलम् ॥ ३ ॥ दैत्यमिति । कवचैः परीतं सहजसहस्रकवचसन्नद्धशरीरम् । साहस्रेति । सहस्रसंवत्सरं चीर्णन तपसा ताबत्कालं कृतेन समरेण चच्छेद्यरित्यर्थः । पर्यावनिर्मितौ परस्परपरिहारेण कृतौ तपस्समरौ याभ्यां तौ तथा । एकस्मि भ