पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये स्तपस्यति सत्यन्यो युध्यति, तथान्यस्मिन्नपीत्यर्थः । शिष्टैकफङ्कटम् अवशिष्टेकक- वचं न्यहतामवधिष्टाम् ॥ ३ ॥ अन्वाचरनुपदिशनपि मोक्षधर्म त्वं भ्रातृमान् बदरिकाश्रममध्यवात्सीः । शक्रोऽथ ते शमतपोबलनिस्सहात्मा दिव्याङ्गनीपरिवृतं प्रजिघाय मारम् ॥ ४ ॥ अन्वाचरनिति | लोकसङ्ग्रहणार्थं स्वयमनुतिष्ठन्, उपदिशन् तदर्थिभ्यो नारद्रादिभ्य इति शेषः । मोक्षधर्मे निवृत्तिलक्षणं धर्मम् | त्वं श्रीनारायणः भ्रातृ- मान् नरेण भ्रात्रा सहितः । शमेनेन्द्रियनिग्रहेण तपोबलेन च निस्सह ईर्ष्यायुक्त आत्मा मनो यस्य स तथा । प्रांजेवाय प्रेषयामास । अयं तपसा स्वर्ग जिघृक्षतीति शङ्कया तपोनाशाय कामं सपरिवार प्रेषयामासेत्यर्थः ॥ ४ ॥ अथ शऋप्रहितस्य कामस्य प्रवृत्तिमाह - कामो वसन्तमलयानिलबन्धुशाली कान्ताकटाक्षविशिखैर्विकसद्विलासैः । विध्यन्हमुहरकम्पमुवीक्ष्य च त्वां भीतस्त्वयाथ जगदे मृदुहासभाजा ॥ ५ ॥ M काम इति । कान्ता दिव्याङ्गनास्तासां कटाक्षा एव विशिखाः तैः विकस- न्तोऽभिव्यक्ता विलासा भ्रूचलनादयः पत्रस्थानीया येषु तैः मुहुर्मुहुर्विध्यन् अक म्पं समाधेरचलचित्तं त्वां भीतः सन् उदीक्ष्य दूरादेवोन्नामेतवदनः सन्नवलोक्याथ मृदुहासभाजा मन्दस्मितसहितेन त्वया जगदे ॥ ५ ॥ भीत्यालमङ्गजवसन्तसुराङ्गना ! वो मन्मानसं लिह जुषध्वमिति वा । त्वं विस्मयेन परितः स्तुवतामथैषां मादर्शय: स्वपरिचारककातराक्षीः ॥ ६ ॥ १. 'नागणवॄ' च. पाठः,