पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कपिलोपाख्यानम् । रुचितुलिततमालं शीलयेतानुवेलं कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ४ ॥ दशकम् - १५] विमलेति । विमला यमनियमैर्विशुद्धा मतिर्यस्य स तथा । उपात्तैः स्वीकृतै- विजितैरित्यर्थः। आसनाद्यैः प्राणायामप्रत्याहारधारणाध्यानसमाधिभिः ममेश्वरस्याङ्गं रूपं दिव्यान्यप्राकृतानि भूषायुधान्येवाको लाञ्छनं यस्य । अनुवेलं सर्वदा शीलयेता- भ्यस्येत् ॥ ४ ॥ संप्रति ज्ञानयोगाद् भक्तिमार्गस्य सुगमत्वमाह -- मम गुणगणलीलाकर्णनैः कीर्तनायै- मयि सुरसरिदोघमख्यचित्तानुवृत्तिः । भवति परमभक्तिः सा हि मृत्योर्विजेत्री कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ५ ॥ ममेति । तत्र भक्तिर्द्वधा साधनसाध्यभेदात् । ममेश्वरस्य गुणमणा भ सवात्सल्यादयः, लीलाः चरितानि, तदाकर्णनैः । कीर्तनमाद्यं येषां स्मरणनमस्कारा- र्चनवन्दनदास्यसख्यात्मनिवेदनानां ते तथा तैः । नवलक्षणया साधन भक्त्येत्यर्थः । परमभक्तिः साध्यभक्तिर्भवतीत्युक्तम् । तस्याः स्वरूपमाह—मयीति | सुरसरिदोघ- प्रख्या गङ्गाप्रवाहतुल्या चित्तानुवृत्तिः प्रेमात्मिका मनोवृत्तिः, साध्यभक्तिरित्यर्थः । सा भक्तिः। हिरवधारणे । मृत्योः संसारस्य विजेत्री विशेषेणानायासेनैव संसारस्य समूलोन्मूलनीत्यर्थः ॥ ५ ॥ अथ भक्तिदायर्थ केवलपापकर्मणा नरकपातप्रकारमाह--- अहह बहुलाहिंसासञ्चितार्थैः कुडम्बं प्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाली । विशति हि गृहसक्तो यातनां मय्यभक्तः कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ६॥ अहहेति । अहहेति खेदे । बहुलया प्रभूतया हिंसया उपद्रवेण परार्थस्पृहया इतस्ततश्चौर्यादिना सञ्चितैरार्जितैरर्थैर्धनधान्यादिभिः कुडम्बं पुत्रभार्यादीन् । यातनां रौरवादिनरकं विशति । केवलपापकर्मिणो नरकप्रवेशप्रकारचोक्तः "यमदूतैर्यातना