पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्धः-३ प्रकृतीति । प्रकृतिर्मूलप्रकृतिः सर्वकारणत्वाद्, या प्रधानमव्यक्तमविद्या माये- त्यादिशब्दैरभिधीयते, महद् महत्तत्त्वं मूलप्रकृतिकार्यम्, अहङ्कारा महत उत्पन्नाः सा- त्त्विकराजसतामसाः, मात्रास्तामसाहङ्कारकार्याण्यपञ्चीकृतपञ्चभूतानि शब्दस्पर्शरूप- रसगन्धरूपाणि भूतानि पञ्च महाभूतानि पृथिव्यप्तेजोवाय्वाकाशरूपाणि, हृद् म नः, दशानामक्षाणामिन्द्रियाणां घ्राणरसनचक्षुः श्रोत्रत्वग्वादपाणिपादपायूपस्थानां समाद्दारो दशाक्षी । एवं चतुर्विंशतितत्त्वानि | पूरुषः पुरुषो जीवेश्वरभेदादू द्विधा इति विदितो विभागो येन स तथा । असौ जीवः । प्रकृत्या मायया, तत्कार्यशरीरा- दिबन्धैर्वा ॥ २ ॥ ननु बन्धस्य वास्तवत्वे जीवस्य तस्माद् मोक्षो न स्यादित्याशङ्कय तस्यावि- द्याविलसितत्वेन ज्ञाननिवर्त्यत्वमाह -- प्रकृतिगतगुणौधैर्नाज्यते पूरुषोऽयं यदि तु सजति तस्यां तद्गुणास्तं भजेरन् । मदनुभजनतत्त्वालोचनैः साप्यपेयात् कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ ३ ॥ प्रकृतीति । प्रकृतिरिति प्रकृतिकार्यचतुर्विंशतितत्त्वमयानि जरायुजाण्डजस्वे- दजोद्भिज्जानि चतुर्विधानि शरीराण्युच्यन्ते, तद्गतगुणौधाः कर्तृत्वभोक्तृत्वादयः, तैर्नाज्यते नोपरज्यते। शरीरस्थोऽध्ययं जीवः परमार्थतः शररिधः कर्तृत्वभोक्तृत्व- जन्ममरणादिभिर्न लिप्यत इत्यर्थः । अयं पुरुषो यदि तस्यां प्रकृत्यां शरीरादौ सजति अहं ममेत्यभिमन्यते, तर्हि तद्गुणाः प्रकृतिगुणास्तं भजेरन् जननमरणादिसंसार- दुःखमनुभावयन्तीत्यर्थः । अत्र यदिशब्दः प्रकृतिसंबन्धस्यापरमार्थत्वं द्योतयति । मदनुभजनमीश्वरप्रणिधानं, तत्त्वालोचनं ब्रह्मज्ञानं, तैः । तत्र श्रवणमनननिदिध्या- सनरूपप्रकारभेदाद् बहुवचनम् | सा प्रकृतिरपेयात् । तदुक्तं “तीव्रेणात्मसमाधिना | प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम् | तिरोभवित्री" (श्रीभा. स्क. ३. अ. २७. श्लो. २२, २३) इति ॥ ३ ॥ - ईश्वरभजनस्याष्टाङ्गस्वमाह विमलमतिरुपाचैरासनाद्यैर्मदर्श गरुड समधिरूढं दिव्यंभूषायुधाकम् |