पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - १५] कपिलोपाख्यानम् | निजभर्तुगिरा भवभिषेवानिरतायामथ देव! देवहूत्याम् । कपिलस्त्वमजायथा जनानां प्रथयिष्यन् परमात्मतत्वविद्याम् ।। ९ ।। निजेति । परमात्मनस्तत्त्वानां चतुर्विंशतेश्च विद्यां ज्ञानं जनानां प्रथयि- ष्यन् आचार्यपरम्परया गमरूपेण प्रकाशयितुमुद्यतः ॥ ९ ॥ वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशञ्जनन्यै | कपिलात्मक ! वायुमन्दिरेश! त्वरितं त्वं परिपाहि मां गौघात् ॥ १० ॥ वनमिति । वनमेयुषि स्वदुहितुर्मरीच्यादिभ्यो ब्रह्मपुत्रेभ्यो दत्त्वा वनं गतवति सति जनन्यै मतसर्वस्वं सर्वस्वीयावयवयुक्तं स्वसिद्धान्तमुपादिशन् ग्राहयन् । त्वरितमतिलघु ॥ १० ॥ इति कपिलोपाख्यानं चतुर्दशं दशकम् । मतिरिह गुणसक्ता बन्धकृत् तेष्वसक्ता त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् । महदनुगमलभ्या भक्तिरेवात्र साध्या कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ १ ॥ मतिरिति । इह् त्रिषु लोकेषु ये गुणाः सञ्चन्दनयनितामृतादिविषयास्तेषु सक्ता मतिः पुरुषस्य बन्धकृत् शरीरबन्धं करोति । तेषु गुणेष्वसक्ता तु तथा बन्धाय न भवति । अपिचामृतं मोक्षं करोति । तर्हि गुणसङ्गः केन त्यज्येतात आह - उपरु - न्ध इति । भक्तियोगस्तु सक्तिमुपरुन्धे प्रतिबद्धाति । अथ भक्ति: केन साध्यत इत्यत आह - महदिति । महतां सतामनुगमनेन शुश्रूषया लभ्या भक्तिः | सैवात्र लोके मुमुक्षुभिः साध्येति कपिलतनुः कपिलवासुदेवत्वेनावतीर्णस्त्वं देवहूत्यै स्वमात्रे म्यगादी: उपदिष्टवान् ॥ १ ॥ प्रकृतिमहदहङ्काराथ मात्राश्च भूता- न्यपि हृदपि दशाक्षी पूरुषः पञ्चविंशः | इति विदितविभागो मुच्यतेऽसौ प्रकृत्यां कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ २ ॥ १० 'त्या' मूलपाठ.