पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीय परश्वस्त्वां दिक्षुराग तुभ्यं स्वात्मजां दास्यति, त्वं च तस्यां नव पुत्रीर्जनयि- प्यसि, अहं च स्वांशेन तय पुत्रत्वेनावतरिष्यामीत्यनुगृह्ण भवान् जगामेत्यर्थः ॥४॥ 00 स मनुः शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या | भवदीरितनारदोपदिष्टः समगात् कर्दममागतिप्रतीक्षम् ॥ ५ ॥ स इति । भवदीरितनारदोपदिष्टः भवदीरितेन भवता प्रेरितेन नारदेनोप- दिष्टः । नारदेन हि देवहूत्यै कर्दमवयः शीलरूपगुणवर्णनपूर्वक कर्दमाय स्वात्मजां प्रयच्छेति मनुरुक्तः । आगतिप्रतीक्षमिति, अपिनाम मनुरिदानीं स्वां दयितां दुहितरमादायागच्छतीति मार्गे दत्तदृष्टिमित्यर्थः ॥ ५॥ मनोवतं तरुणीरत्नमवाप्य कर्दमोऽसौ । भवदर्चननिर्वृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥ ६ ॥ मनुनेति । उपहृतां सपारिबर्हं सत्कृत्य दत्ताम् । भवदर्चननिर्वृतोऽपि निवृ- त्तिधर्मनिरतोऽपि दृढया अव्यभिचारिण्या अमायया शुश्रूषणया प्रसाद दधौ || ३ || स पुनस्त्वदुपासनप्रभावाद् दयिताकामकृते कृते विमाने । वनिताकुलसङ्कुले नवात्मा व्यहरद् देवपथेषु देवहूत्या ॥ ७ ॥ स इति । दयिताकामक्ते प्रिययाभ्यर्थितस्तदिच्छानुसरणार्थं कृते स्वयो- गानुभावेन रचिते वनिताकुलसङ्कुले परिचारकविद्याधरस्त्रीसहस्रपरिवृते नवो नूलो मोहनवेषोज्ज्वलः षोडशवर्षीय आत्मा देहो यस्य स नवात्मा । अथवा नव आत्मानः शरीराणि यस्य, सुरतोत्सुकां प्रियामात्मानं नवधा विभज्य रमयन् देवपथेषु नन्दन- पुष्पभद्रचैत्ररथादिदेवोद्यानेषु व्यहरत् क्रीडां चक्रे ॥ ७ ॥ , शतवर्षमथ व्यतीत्य सोऽयं तव कन्याः समवाप्य धन्यरूपाः । वनयानसमुद्यतोऽपि कान्ताहितकृत् त्वज्जननोत्सुको न्यवात्सीत् ॥ ८ ॥ शतवर्षमिति । बन्यानसमुद्यतः तपसे वनं जिगमिषुरपि कान्ताहितद् दु- हितृवरप्रदान पुत्रजननादि कुर्वन्, तत्रापि त्वज्जनोत्सुकः ॥ ८ ॥ १. 'भगवा' क. पाठः. २. 'सुकोऽपि' ध. पाठः,