पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - १४] कपिलोपाख्यानम् | समनुस्मृतेति । सम्यग् यमनियमादियुक्तमनुस्मृतं लयविक्षेपादिराहित्येन चि- न्तितं ताबकाङ्घ्रियुग्मं त्वत्पादपद्मयुगलं येन । पङ्कजसम्भवस्याङ्गजन्मा पुत्रः स प्रसिद्धः स्वायम्भुवो मनुः निजमन्तरं चतुर्युगाणां साधिकैकसप्ततिपरिमितं कालम् अन्तरायाः शारीरमानसदौर्वक भौतिकाः क्लेशाः प्रजापालनोपरोधाः, तद्रहितम् । एतञ्च भवदस्मिरणतच्चरितकथनानुभावात् । अत एव सुखं स्वैरं यथा भवति तथा निनाय गमयामास ॥ १ ॥ अथ कापिलप्रसङ्गाय कर्दमकथा प्रस्तूयते - समये खलु तत्र कर्दमाख्यो दुहिणच्छायभवस्तदीयवाचा | धृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समाः सिषेवे ॥ २ ॥ समय इति । तत्र समये तस्मिन् काले कर्दम इत्याख्या यस्य स प्रजापतिः दुहिणच्छायभव इति, “छायायाः कर्दमो जज्ञे" ( श्री. भा. एक. ३. अ. १२ लो. २७) इत्युक्तेः । तदीयवाचा प्रजाः सृजेति ब्रह्मण आदेशाद् धृतसर्गरसः प्रजास- ष्टिकामः सन् | निसर्गरम्यं स्वत एव सञ्चिन्तकहृदयरञ्जकम् अयुतं समा दशसहस्रसंवत्सरं सिषेचे तपश्चकार ॥ २ ॥ गरुडोपरि कालमेघकम्रे विलसत्केलिसरोजपाणिपद्मम् । हसितोल्लासताननं विभे! त्वं पुराविष्कुरुषे स्म कर्दमाय ॥ ३ ॥ गरुडेति । स्वं तस्मै गरुडोपरि गरुडांसदेशविन्यस्तचरणाम्बुजं वपुराविष्कु- रुषे स्म दर्शयामासिथ || ३ ॥ स्तुवते पुलकाताय तस्मै मनुपुत्र दयितां नवापि पुत्रीः । कपिलं च सुतं स्वमेव पश्चात् स्वगतिं चाप्यनुगृह्य निर्गतोऽभूः ॥ ४ ॥ - स्तुवत इति । ततश्च भुवि पतित्वा प्रणभ्योत्थाय स्तुवते प्रमोद भारेण पुलकावृ ताय तस्मै कर्दमप्रजापतये मनुपुत्रीं देवहूतिं दयितां भार्थी तस्यां नव पुत्रीरपि स्वं स्वां- शभूतं कपिलं सुतं च पश्चादन्ते स्वगतिं मोक्षं चानुगृह्य निर्गतोऽर्भूः प्रस्थितवानास। स्वायंभुवो मनुर्ब्रह्मावर्त नाम देशमधिवसति, सरथेन स्वमहिष्या शतरूपया सहेतः १. 'त्थिताय' ख. पाठः, २. 'सि' क. पाठ: