पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहा जिह्वायां ते परपुरुष ! कर्णे च चमसा विभो ! सोमो वीर्ये वरद ! गलदेशेऽप्युपसदः ॥ ९ ॥ त्वचीति । छन्दो गायत्र्यादि त्वचि गायत्र्यादिच्छन्दांस्येव तव त्वगत्यर्थः । अध्वर्युहोगातारश्चत्वार ऋत्विग्यजमाना एव चतुर्होतार: अङ्घ्रावङ्घ्रिषु । सुग् जुहूः वदने तुण्डे । इडा पुरोडाशद्रव्यनिधान पात्र विशेष: उदरे | ग्रहाः सोमसङ्ग्र हणपात्रविशेषास्ते जियान् | चमसाः भक्षणसाधनद्रव्यनिधानपात्रभेदाः कर्णे कर्ण- रन्ध्रयोः । सोमः सोमवल्लीरसो वीर्ये रेतः । उपसद: प्रवनन्तर क्रियमाणा इष्टयः, तास्ते गलदशे ॥ ९॥ मुनीन्द्रैरित्यादिस्तवनमुखरैमोदितमना महीयस्या मूर्त्या विमलतरकीय च विलसन् । स्वाधिष्ण्यं संत्रातः सुखरसविहारी मधुरिपो ! निरुन्ध्या रोगं मे सकलमपि वातालयपते ! ।। १० ।। सुनीति । मुनीन्द्रैरित्यादीत्यादिशब्देन प्रायणीयोदयनीये इष्टी से दंष्ट्रे इत्यादि गृह्यते । स्तवनमुखरैः स्तुतिशब्दजल्पाकैः मोदितं कृतप्रसादं मनो यस्य स तथा । महीयस्या अतिशयेन पूजनीयया मूर्त्या स्वविग्रहेण विमलतरया जगत्पवित्ररूपया कीर्त्या च विलसन् शोभमान: सुखरसविहारी स्वैरं क्रीडमानः स्वधिष्ण्यं वैकुण्ठं संप्राप्तः ॥ १० ॥ इति हिरण्याक्षयुद्ध-तद्वव-यज्ञवराहस्तुतिवर्णन त्रयोदशं दशकम् | एवं वराहावतारेण कृतप्रतिष्ठायां भुवि तदाश्रयत्वेन स्वायंभुवस्य मनोः प्रजापा- लनप्रकारमाह MATE समनुस्मृततावका घ्रियुग्मः स मनुः पङ्कजसम्भवाङ्गजन्मा निजमन्तरमन्तरायहीनं चरितं ते कथयन् सुखं निनाय ॥ १ ॥ १. 'नम' के. पाठ