पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हिरण्याक्षवघवर्णनम् । गरिष्ठाभिर्मुष्टिमहतिभिरभिन्नन्तमसुरं कराग्रेण स्वेन श्रवणपदमूले निरवधीः ॥ ७ ॥ भवदिति । भवतो विष्णोः सुदर्शनाख्यस्य चक्रस्य ज्योतिषस्तेजसः कणः स्फुलिङ्गस्तस्य लवो लेशस्तस्य निपातेन प्रसरणेन मायानामासुरीणां चक्रे समूह विधुते चलिते । यथा रवेः प्रकाशलेश निपातेन नैशं तमः, तद्वददर्शनं गते सती- त्यर्थः । ततः स्वारम्भवैफल्यानन्तरं विततो व्याप्तो घनो निबिडो यो रोषस्तेना- न्धं मनो यस्य स विततघनरोषान्धमनाः तम् । करकलितं सुदर्शनमनन्यसाधारणं प्रभावं च दृष्ट्वापि प्राग्जन्मशापप्रभावेन स्वस्वामिनमजानन्तमिति भावः । गरिष्ठाभि- गुरुतराभिर्मुष्टिप्रहृतिभिरभिघ्नन्तं विजिगीषया पुनः पुनः प्रयुञ्जानं " करायेण स्वेन श्रवणपदमूल " इति पाठ: समीचीनः । “करेण कर्णमूलेऽहन्", "निहतः करेण" (स्क. ३. अ. १९. लो. २५, २८) इति च भागवतोक्तेः । अनन्तरलोके च करसरोजप्रमथित " इति ॥ ७ ॥ " 66 तव दशकम् - १३] महाकायः सोऽयं तव कैरसरोजममथितो गलद्रक्तो वक्त्रादपतदृषिभिः श्लाघितहतिः । तदा त्वामुद्दामममदभरविधोतिहृदया मुनीन्द्रा: सान्द्राभिः स्तुतिभिरनुवन्नध्वरतनम् ॥ ८ ॥ 30 < महाकाय इति । 'भगवता स्वकरायेण कर्णकपोलसन्धौ ताडितोऽस्य मुखं पश्यन्नेवासौ तनुं जहौ, अहो भाग्यं, को विमां संस्थितिं लभेत' इत्यृषिभिः लाधिता सशिरःकम्पं स्तुता हतिर्निग्रहो यस्य स तथा । उद्दामप्रमदभरणान्स- दुर्बहेण सन्तोषातिशयेन विद्योति शोभनशीलं हृदयं येषां ते मुनन्द्रा जनस्तपः- सत्यलोकनिवासिनः सान्द्राभिः सम्भूय कृतत्वाद् बधिरीकृतदशदिशाभिः स्तु- तिभिः स्तोवर यज्ञाङ्गं श्रीवराहमूर्तिमनुवन् तुष्टुवुः ॥ ८ ॥ अध्वरतनुत्वेनैव स्तौति --- त्वचि च्छन्दो रोमस्वपि कुशगणश्चक्षुषि घृतं चतुर्होतारोऽौ सुगपि बदने चोदर इडा । १. 'स्वपादाङ्गुष्ठेन' ख. पाठः. २. 'चरणपातन' ग. घ. पाठः ३. 'ग' क, पाठ:.