पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणी ये अनन्तरं नारदस्य हिरण्याक्षवधसाहाय्यं दर्शयति- हिरण्याक्षं तावद् वरद ! भवदन्वेषणपरं चरन्तं सांवते पयसि निजजङ्घापरिमिते । भवद्भक्तो गत्वा कपटपदुधीर्नारदमुनिः शनैरूचे नन्दन दनुजमपि निन्दस्तव बलम् ॥ १॥ हिरण्याक्षमिति । तावत् तव धरोद्धरणसमकालमेव संवतः प्रलयः, तत्सम्बन्धिान पयसि कपटपटुधी: जगदनुग्रहायाङ्गीकृतकापव्या पट्टी तन्निपुणा धीर्यस्य स तथा दनुजं हिरण्याक्षं नन्दन् प्रशंसन् तब बलमपि निन्दन् शनैः सानुनयमूचे उक्तवान् ॥ १ ॥ श्रीनारदोक्तिमेव दर्शयति स मायावी विष्णुर्हरति भवदीयां वसुमती प्रभो ! कष्टं कई किमिदमिति तेनाभिगदितः । नदन कासौ कासाविति स मुनिना दर्शितपथो भवन्तं संप्रापद् धरणिधरमुयन्तमुदकात् ॥ २ ॥ AURA [स्कन्धः - ३ स इति । स विष्णु: मायावी भवद्भिया वराहण्याजेनात्मानमाच्छाद्य भवदीयां भवता ब्रह्मणोऽपहृत्य रसातले निवेशितां, बसुमतीमिति । अनेनोपेक्षानौचित्यं द्योतयति । प्रभो ! तन्निवारणसमर्थ ! कष्टं कष्टं किमिदम् अहो मन्दा अपि प्रभूत् धिपुर्वन्ति, प्रभवश्चोपेक्षापराः कोऽयं क्रम इति तेनाभिगदितः प्रोत्साहितः स नदन् सिंहनाद कुर्वन् कासौ कासाविति सामिनिवेशं पृष्टेन मुनिना इत इत इति दर्शितः पन्था यस्य सः धरणिधरम् उदकादुद्यन्तं भवन्तं संप्रापत् संप्राप्तवान् ॥ २॥ दर्शनसमनन्तरमेव स भगवन्तमविक्षिप्तवानियाहू- अहो आरण्योऽयं मृग इति हसन्तं बहुतरै - दुरुविंध्यन्तं दितिसुतमवज्ञाय भगवन् ! | महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा पयोधावाधाय समुदा मृविधौ || ३ || www.