पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - १२] भूम्युद्धरणवर्णनम् । - अन्तर्जलमिति । तदनु जलप्रवेशानन्तरं त्वं सङ्कलनकचक्रं ग्राम्याहस- मूहं भ्राम्यत्तिमिङ्गिलकुलं भ्राम्यन्त इतस्ततः सञ्चरन्तः तिमिझिला अनेक योजना- यामविस्तारा महामत्स्याः, तेषां कुलं समूहो यस्मिन् । क्षुब्धजलत्वात् कलुषा आविला ऊर्मिमाला: तरङ्गसमूहा यस्मिंस्तद् अन्तर्जलं जलमध्यम् आविश्य भीषणरवेण रसातलस्थान् जनान् आ समन्तात् कम्पयन् वसुमती निजप्रियां भूमिम् अगवेषयः अन्वेषणमकरोरित्यर्थः ॥ ८ ॥ दृष्टाथ दैत्यहतकेन रसावलान्ते संवेशितां झटिति कूटकिटिर्विभो ! त्वम् । आपातुकानविगणय्य मुरारिखेटान दंष्ट्राङ्कुरेण वसुधामधाः सलीलम् ॥ ९ ॥ दृष्टेति । अथ अनन्तरं दैत्यहतकेन असुराधमेन हिरण्याक्षेण रसातलान्ते संवेशितां विन्यस्तां वसुधां भूमिं हे बिभो ! कूटकिटिमयाबराहवपुस्त्वम् आपातु- कान् आगच्छतः सुरारिखेटान् असुरापशदान् अविगणय्य तृणीकृत्य दंष्ट्राङ्कुरेण दशनाग्रेण सलीलं यथा भवति तथा अधाः उद्धृतवानसि ॥ ९ ॥ अभ्युद्धरनथ धरां दशनाग्रलग्न- मुस्ताङ्कुराङ्कित इवाधिकपीवरात्मा | उद्धृतघोरसलिलाजलघेरुदञ्चन् क्रीडावराहवपुरीश्वर ! पाहि रोगात् ।। १० ।। अभ्युद्धरनिति । अथ घरामभ्युद्धरम् दशनामलममुस्ताङ्कुराङ्कित इव यथान्यो वराहः पल्वले मुस्ताक्षतिं कुर्वन् दशनामे मुस्ताङकुरेणाङ्कितो भवति, तद्वद् दर्शनीयो भवन् अधिकपीवरात्मा अतिपीनकायः उद्भूतं संक्षुब्धं घोरं मय- करं सलिलं यस्मिन्, तस्माज्जलवेरुदञ्चन्नुन्मज्जन् हे क्रीडाबराहवपुः ! क्रीडा धृत- बराहतनो ! हे ईश्वर ! त्वं रोगात् पाहि ॥ १० ॥ इति वराहावतार-भूम्युद्धरणवर्णनं हादशं दशकम् ।