पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[स्कन्ध: - ३ विचिन्तयति सति सद्यः शैलमात्र: शैलद्वयसवपुर्भवन् त्वं घोरघोरम् अतिशयेन भयङ्करं यथा, भवति तथा जगजैिथ किल ॥ ५॥ नारायणीये तं ते निनादमुपकर्ण्य जनस्तपःस्था: सत्यस्थिताय सुनयो नुनुनुर्भवन्तम् । तत्स्तोत्रहर्षुलमनाः परिणध भूप्र स्तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥ ६ ॥ तमिति । ते तब तं निनादं गर्जितं जनस्तपःस्थाः जनस्तपोलोकस्था अपी- त्यर्थः । सत्यस्थिताः सत्यलोकस्था नुनुवुः तुष्टुवुः । तत्स्तोत्रेण तेन स्तोत्रेण हर्षु- लमनाः प्रसन्नचेताः सन् विपुलमूर्तिः पूर्वस्मादतिविस्तृतकायः सन् त्वं भूयः पुन- रपि तेषां प्रसादाय परिणद्य गर्जन् तोयाशयं प्रलयाब्धिमवातरः अवगाहसे स्म |॥ ऊर्ध्वरिपरित रोमा मोक्षितवाल धरवाङ्मुखधोरधोणः । तूर्णमदीर्णजलदः परिघूर्णदणा स्तोतॄन् मुनीञ्छिशिरयन्नवतेरिथ त्वम् ॥ ७ ॥ } 3 ऊर्चेति । ऊर्ध्वं प्रसरणशीलानि परिधूम्राणि कृष्णलोहितानि विधूतानि कम्पितानि रोमाणि यस्य स तथा | उत्क्षिप्तवालधि: उन्नीतपुच्छ: अवाङ्मुखा अधःकृता घोरा भयङ्करौकारा घोणा नासिका यस्य स तथा । तूर्णम् अतिलघु प्रदीर्णाः शकलकिता जलदा येन | परिधूर्णता अक्षणा कम्पितपिङ्गलितोच्छूनाक्षि- द्वयेन प्रकटितानुकम्पेन स्तोतॄन् मुनीन् शिशिरयन् आनन्दयन् त्वमवतेरिथ अव- जगाहिषे ॥ ७ ॥ अन्तर्जलं तदनु सकुलनक्रचक्रं भ्राम्यत्तिमिङ्गिलकुलं कलुपोर्मिमालम् । आवश्य भीषणरवेण रसातलस्था- नाकम्पयन वसुमतीमगवेषयस्त्वम् ॥ ८ ॥ १. 'रा घो' क. पाठः