पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वराहावतारवर्णनम् । इत्थं त्वदङ्घ्रियुगलं शरणं यतोऽस्य नासापुटात् समभवः शिशुकोलरूपी ॥ ३ ॥ दशकम् - १२] हाहेति । हे विभो ! हाहा कष्टं जातम् । अहं पुरस्ताद् जनसर्गात् प्रागेव पृथिवीनिवेशनाय जलं न्यपिवं पीतवानस्मि | अद्यापि तुच्छीकृते जले मही मज्जति । अहं भवता सर्गे योजितः सन्नपि किं करोमि । अस्मिन् कर्मण्यस्माकं त्वमेव शरणम् । इत्थं त्वदङ्घ्रियुगलं शरणं यतः प्राप्नुवतः अस्य ब्रह्मणः नासा- पुटाद् नासिकोदरतः शिशुकोलरूपी वराहतोकरूपं विअत् समभवः अवतीर्णो- ऽभूरित्यर्थः ॥ ३ ॥ अङ्गुष्ठमात्रवपुरुत्पतितः पुरस्ताद् भूयोऽथ कुम्भिसदृशः समजृम्भवास्त्वम् । अभ्रे तथाविधमुदीक्ष्य भवन्तमुच्चे- विस्मेरतां विधिरगात् सह सूनुभिः स्वैः ॥ ४ ॥ अङ्गुष्टुति | स्वं पुरस्तात् पूर्वी नासापुटाद् अङ्गुष्ठमात्रवपुः अङ्गुष्ठेमा- त्रपरिमितशरीरः सन् उत्पतितः । अथ अनन्तरं भूयः पुनश्च कुम्भिसदृशो गज- मात्रः समजृम्भथाः वधिषे । तथाविधं क्षणेन वर्धिष्णुम् अम्रे मेघमार्गे उच्चैः उन्नतमुदीक्ष्य मुखान्युन्नमय्य दृष्ट्वा विधिः ब्रह्मा विस्मेरतां विस्मितत्वम् अगात् प्राप | सह् सूनुभिः स्वैरिति । सूनवो मरीच्यादयः, तेऽपि विस्मिता बभूवुरित्यर्थः । कोऽसावचिन्त्यमहिमा फिटिरुत्थितो मे घोणापुटात् किमु भवेदजितस्य माया | इत्थं विचिन्तयति धातरि शैलमात्रः सद्यो भवन् किल जगर्जिथ घोरवोरम् ॥ ५ ॥ कोऽसाविति । अचिन्त्यमहिमा अपरिच्छेद्यशरीरमहत्त्व: अप्रमेयप्रभावो या किटि: सूकरो मे घोणापुटाद् नासापुटाद् उत्थित उत्पन्नः | अजितस्य विष्णो- र्माया किमु भवेत् स एक मायया सूकरमूर्तिरवतीर्णः किमु भवेत् | धातार इ १. 'ष्ठा' ख. पाठ: २. 'नासापु' क. पाठः,