पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये विशेषतो मरणदशायामित्यपि सूचितम् ॥ १० ॥ इति सनकादिवैकुण्ठप्रवेश-जयविजयशाप - हिरण्यकशिपुहिरण्याक्षोत्पत्तिवर्णनम् एकादशं दशकम् | अथ वराहावतारहिरण्याक्षवधाद्यवतारयितुं मनोः प्रवृत्तिमाह -- स्वायम्भुवो मनुरथो जनसर्गशीलो दृष्ट्वा महीमसमये सलिले निमनाम् | स्रष्टारमाप शरणं भवदङ्घ्रिसेवा- तुष्टाशयं मुनिजनैः सह सत्यलोके ॥ १ ॥ स्वायम्भुव इति । अथो प्रजासर्गे ब्रह्मणो निदेशानन्तरं जनसर्गः प्रजो- त्पादनं शीलं यस्य स जनसर्गशील: असमये अनासन्नेऽपि प्रलयकाले स्रष्टारं स्वजनकं ब्रह्माणं भवदङ्घ्रिसेवया त्वत्पादाम्बुजोपासनया तुष्टाशयं सन्तुष्टमनसं मुनिजनैः सह सत्यलोके स्थितम् । मुनिजनैः सह शरणमापेति वा ॥ १ ॥ कष्टं प्रजाः सृजति मय्यवनी निमग्रा स्थानं सरोजभव! कल्पय तत् प्रजानाम् । इत्येवमेष कथितो मनुना स्वयम्भू- रम्भोरुहाक्ष! तव पादयुगं व्यचिन्तीत् ॥ २ ॥ कष्टमिति । हे सरोजभव ! मयि प्रजाः सृजति सति अवनिः मलयाम्भसि निमनाभूत् कष्टम् अनाश्रयत्वान्नाहं भवन्निदेशं कर्तुं समर्थः । तत् तस्मात् प्रजानां मम च स्थानं कल्पय इत्येवं मनुना कथितो विज्ञापितः एष स्वयम्भूः हे अम्भो- रुहाक्ष ! तव पादयुगं व्यचिन्तीत् चिन्तयामास |॥ २ ॥ चिन्तयंस्तत्क्षणमेव हृदि दर्शनं गतं भवन्तं खिन्दानमानसश्चैवमाह-~~ हा हा विभो ! जलमहं न्यपिवं पुरस्ता- दद्यापि मज्जति मही किमहं करोमि ।