पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ११] हिरण्यकशिपुहिरण्याक्षोत्पत्तिवर्णनम् । थितचित्ता बलाढषेर्वासो जग्राह | स च तथा सहोपविवेशेति । अतः सन्ध्यायां समुत्पादनेन कष्टचेष्टौ क्रूरकर्माणौ यमौ युगपदेकगर्भटतौ यमौ लोकस्य जनस्या- न्यौ यमौ क्रूरकर्मणा वैवस्वताद् यमादन्यावन्तकौ (इव) बभूवतुरित्यर्थः ॥ ७ ॥ हिरण्यपूर्वः कशिपुः किलैकः परो हिरण्याक्ष इति प्रतीतः । उभौ भवन्नाथमशेषलोकं रुक्षा न्यरुन्धां निजवासनान्धौ ॥ ८ ॥ हिरण्यपूर्व इति । तयोरेको ज्येष्ठो हिरण्यपूर्वः कशिपुः हिरण्यकशिपुरिति प्रतीतः प्रसिद्धः । परोऽनुजो हिरण्याक्ष इति प्रसिद्धः । तावुभौ भवान् नाथो रक्षिता यस्य स भवन्नाथः, तमशेषलोकं सर्वलोकवासिनो जनान् रुषा न्यरुन्धां पीडयामासतुः । निजवासनया आसुरेश स्वभावेन अन्धौ बिभ्रंशितपरमार्थज्ञाना- वित्यर्थः ॥ ८ ॥ तयोहिरण्याक्षमहासुरेन्द्रो रणाय बावनवाप्तवैरी । भवमियां क्ष्मां सलिले निमज्ज्य चचार गर्वाद् विनदन् गदावान् ॥९॥ तयोरिति । तयोर्मध्ये हिरण्याक्षमहासुरेन्द्रः त्रिलोक्यां रणाय धावनन- वासवैरी देवानपि प्रतियोगितयालभमानः भवत्प्रियां क्ष्मां भूमिं सलिले प्रलयार्णवे निमज्ज्य भूमि कर्णाभरणीकृत्य जले निमनः सन् गदावान् असन्यस्तमहागदः गर्वाद् विनदंश्वचार ॥ ९ ॥ ततो जलेशात् सदृशं भवन्तं निशम्य बभ्राम गवेषयंस्त्वाम् | भक्तकदृश्यः स कृपानिधे ! त्वं निरुन्धि रोगान मरुदालयेश ! ॥ १० ॥ तत इति । ततो जानुघ्नजले वारिनिधौ क्रीडिष्यन् विभावरी वरुणपुरीं गत्वा तं संयुगायाह्वयत् । ततो जलेशाद् वरुणमुखाद् भवन्तं सदृशं निशम्य रण- मार्गेषु भवतः सदृशः पुराणपुरुषः श्रीनारायण एक एवेतित्व गवेषयन् मृगयन् बभ्राम। स त्वं भक्तैकदृश्य इति । केवलं भक्तैरेव प्रह्लादनारदादिभिः दृश्यः द्रष्टुं शक्यः । ननु भक्तैकदृश्यश्चेद् भगवान्, उपरि “भवन्तं संप्रापद् " ( द. १३. लो. २) इत्युक्तिरनुपपन्नेति चेद्, मैवं, हिरण्याक्षो हि रौद्ररसोपायेन भगवति मनोनिवेशनाद् भक्तः । 'तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेद्' (श्री. भा. स्क. ७. अ. १. लो. ३४) इति वचनात् । अतोऽस्य भगवदर्शन सम्भवति ।