पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये तदेतदाज्ञाय भवानवासः सहैव लक्ष्म्या बहिरम्वुजाक्ष ! | खगेश्वरांसार्पितचारुबाहुरानन्दर्यस्तानभिराममूर्त्या ॥ ५ ॥ तदेतदिति । तस्मिन्नवसरे अम्बुजाक्ष ! भवान् एतत् स्वीयानां सदति- क्रमादिकमाज्ञाय विबुध्य लक्ष्म्या सहैव बहिः मणिभवनस्थ बाह्याकणे अवाप्तः निष्क्रान्तः खगेश्वरस्य श्रीगरुडस्यांसे समर्पितो विन्यस्तः चारुबाहुः आजानुलम्बी पीवरो भुजो यस्य किश्चिद् वामपार्श्वलम्बितमूर्तितया श्रीगरुडस्य वामांसदेशदत्त- कराम्बुज इत्यर्थ: । अभिरामया अतिमनोहरया मूर्त्या तान् मुनीन्द्रान् आनन्दयन् ब्रह्मानन्दपरितृप्तानामपि शरीरमनः क्षोभं जनयन्त्रित्यर्थः ॥ ९ ॥ प्रसाद्य गीर्भि: स्तुवतो मुनीन्द्राननन्यनाथावथ पार्षदौ तौ । संरम्भयोगेन भवैस्विभिमभुपेतमित्यात्तकृपं न्यगादीः ॥ ६ ॥ i प्रसाद्येति । ततश्च त्वं स्तुवतः त्वदर्शनानन्तरं मूर्ध्ना प्रणम्य स्तुवतो मुनीन्द्वान् माध्वीभिर्गीर्भिः प्रसाद्य अथ अनन्तरम् अनन्यनाथौ आत्मैकशरणौ तो सङ्कटस्थौ स्वपार्षदौ जयविजयों आतकृपम् आत्ता अङ्गीकृता कृपा यस्मिन्त्रि- ति क्रियाविशेषणम् । इत्येवं न्यगाढ़ीः उक्तवान् । कथमित्याह - त्रिमिर्हिरण्य- कशिपुरावणशिशुपाला विरूपैर्भवैर्जन्मभिः तत्र तत्र संरम्भयोगेन संरम्भकर्तृकेण माये समाधिनैरन्तर्येण युवां मामुपेतं मत्समीपमागच्छतमिति न्यगादीरित्यर्थः ॥ १ ॥ त्वदीयभृत्यौ किल काश्यपात् तौ सुरारिवीराबुदितौ दितौ द्वौ । सन्ध्यासमुत्पादनकष्टचेष्टौ यमौ च लोकस्य यमाविवान्यौ ॥ ७ ॥ त्वदीयेति । तौ त्वदीयभृत्यों भवत्पार्षदौ काश्यपान्मुनेदितौ तद्भार्यायां द्रौ सुरारिवोरी हिरण्यकशिपुहिरण्याक्षनामधेयायसुरश्रेष्ठौ उदितौ उत्पन्नौ किल । सन्ध्यासमुत्पादनकष्टचेष्टाविति दितिः किल सपत्नीनां पुत्रसमृद्ध्या सन्तप्तहृदया सती काश्यपं स्वभर्तारं सन्ध्यायामग्निमिवान्यगार आसीनं कामातुरा मयि पुत्र- मुत्पादयेति प्रार्थितवती । तेन च सन्ध्येयं क्षणं प्रतिपालयेत्युक्तापि मन्मथोन्म-

  • 'स्वानाम्' इति तु सर्वत्र पठ्यते ।