पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ११] - सनकादीनां बैकुण्ठप्रवेशवर्णनम् | विकुण्ठानलयं वर्णयति--- मनोज्ञनैःश्रेयसकाननाद्यैरनेकवापामणिमन्दिरैश्च । अनोपमं तं भवतो निकेतं मुनीश्वराः मापुरतीतकक्ष्याः ॥ २ ॥ मनोज्ञेति | मनोज्ञैः सर्वर्तुशोभादिभिरतिमनोहरैः नैः श्रेयसकाननाद्यैः निःश्रेयसं कैवल्यमेव मूर्तिमत्वेन स्थितमिति नैःश्रेयसं नाम काननमुद्यानं तदाद्यैः अनेकैः बाप्यो दीर्घिकाः मणिमन्दिराणि रत्नमयानि भवनावि तैः अनो- पमम् अनुपमं तं सर्वलोकाभिवन्द्यं भवतो निकेतं विकुण्ठनिलयं मुनीश्वराः सन- कादयः अतीतकक्ष्याः परिखाप्राकारादिविभक्ताः षट् कक्ष्या अतीत्य भवननिक- टस्थां सप्तमी कक्ष्यां प्रापुरित्यर्थः ॥ २ ॥ A 1, भवद्दिदृक्षून् भवनं विविक्षून् द्वाःस्थौ जयस्तान् विजयोऽप्यरुन्धाम् । तेषां च चित्ते पदमाप कोपः सर्वे भवत्प्रेरणयैव भूमन् ! ॥ ३ ॥ भवदिति । भवद्दिदृक्षून् समाधिगम्यं भवन्तं नयनगोचरीकर्तुकामान् तदर्थ भवनं भवन्मणिमन्दिरं विविक्षून प्रवेष्टुमारब्धान् तान् सनकादीन् जयो विजयश्च द्वाःस्थौ भवत्सारूप्यं प्राप्तौ द्वारपालौ अरुन्धां वेत्रेण प्रत्यषेधतां, तत- स्तेषां चित्ते कोषः पदमवकाशमाप च । सर्वे सनकादीनां वैकुण्ठप्राप्तिः, जयवि- जययोस्तत्प्रतिकूळाचरणं, मुनीनां कोपश्चैतत् सर्वे हे भूमन् | भवतो वराहनरसिं- इश्रीरामकृष्णाद्यवतारैः क्रीडिष्यतो भवत ईश्वरस्य प्रेरणयैवेत्यर्थः ॥ ३ ॥ एवं भगवदर्शनभङ्गे सति सञ्जातेषत्कोपा मुनयो द्वाःस्थौ शतवन्त इत्याह वैकुण्ठलोकानुचितप्रचेष्टौ कष्टौ युवां दैत्यगतिं भजेतम् । इति प्रसप्तौ भवदायौ तौ हरिस्मृतिर्नोऽस्त्विति नेमतुस्तान् ॥ ४॥ बैकुण्ठलोकेति । रजस्तमः क्षोभरहिते वैकुण्ठलोके अनुचिता इतः प्राक कस्याप्यनुत्पन्ना प्रारब्धा सदतिक्रमरूपी चेष्टा व्यापारो ययोस्तौ कष्टौं अतिक्रूरो युवां दैत्यगतिम् आसुरी योनिं भजेतं प्राप्नुतम् इति मुनिभिः प्रशप्तौ तौ भवदा- यौ भवतिककरौ जयविजयौ नः अस्माकं हरिस्मृतिरस्तु युष्मदतिक्रमेण यां यां योनिं व्रजामस्तत्र तत्रापि भगवत्स्मृतिरस्त्विति नेमतुः भुवि पतित्वा तेषां पादान् सयैवं प्रार्थयन्तौ नमश्चतुरित्यर्थः ॥ ४ ॥ ‘पा प्रचे' ख. पाठः. abpm