पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - सृष्टिभेदवर्णनम् । तस्येति । अथ तपश्चरणाय स्वपितरमनुज्ञाप्य रुद्रस्य तपोवनप्रवेशानन्तरं सगैरसिकस्य कथं स्रक्ष्यामीत्येवं चिन्तयतस्तस्यामाद् मरीच्यादयो बुश पुत्रा अ- जांयन्त । तत्र मरीचिर्ब्रह्मणो मनसोऽजायत, अत्रिनेत्रादू, अङ्गिरा मुखतः, ऋतु- मुनिः करात्, पुलहो नामेः, पुलस्त्यः कर्णतः, भृगु त्वच, वसिष्ठः प्राणादू, द क्षोऽङ्गुष्ठाद्, उत्सङ्गान्नारदश्चाजायत । भवदङ्क्षिदासः भवतः श्रीपादाब्जयोर्दा - सोऽहमित्यभिमन्यमान इत्यर्थः ॥ ७ ॥ . धर्मादिकानभिसृजन्नथ कर्दमं च वाणीं विधाय विधिरजसकुलोऽभूत् । त्वद्रोधितैः सनकदक्ष मुखैस्तनूजै- रुद्रोधितश्च विरराम तमो विमुञ्चन् ॥ ८ ॥ धर्मादिकानिति । विधेर्दक्षिणात् स्तनाद् धर्मः श्रीनारायणश्च जातः, अधर्मो मृत्युश्च पृष्ठतः, हृदयात् कामः, भ्रुवोः क्रोधः, अधराल्लोभ इत्याद्यन्वेषणीयम् । अथ कर्दमं चाभिसृजन् छायायाः कर्दमो जात इत्यर्थः । अथ विधिर्वाणी सरस्वतीं विधाय अङ्गजसकुलः कामपरवशोऽभूत् । ततः सर्वजन बुद्धिसाक्षिणा त्वया बोधितैः सनकादिभिर्दक्षादिमिचे तनूजैः पुत्रैरुद्बोधितः प्रतिबोधितः तमोऽज्ञानं विमुञ्चन् विरराम निवृसोऽभूत् ॥ ८ ॥ वेदान् पुराणनिवहानपि सर्वविद्याः कुर्वन् निजाननगणाच्चतुराननोऽसौ । पुत्रेषु तेषु विनिधाय स सर्गवृद्धि- मप्राप्नुवंस्तव पदाम्बुजमाश्रितोऽभूत् ॥ ९ ॥ वेदानिति । असौ चतुराननो ब्रह्मा निजाननगणात् चतुर्मुखेभ्यः वेदान् ऋगादींश्चतुरः पुराणनिवहान् सरूपान् सर्वविद्याः शिक्षायङ्गानि षड् मीमां- साधुपानानि चत्वारि, आयुर्वेदाधुपवेदाश्चत्वार इति चतुर्दश विद्याः । तत्र सर्ववि १. 'श्व पु' ख. पाठः