पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सृष्टिभेदवर्णनम् । ते सृष्टिकर्माण तु तेन नियुज्यमाना- स्त्वत्पादभक्तिरसिका जगृहुर्न वाणीम् || ३ || दशकम् - १०] - तावादति | यावदसौ त्वदीयचरणस्मरणेन शुद्धमना जातः, तावत् तस्मिन् काले सनकसनन्दसनातनसनत्कुमारान् मनसा ससर्ज | ते तु सनकादयः तेन ब्र- झणा सृष्टिकर्मणि नियुज्यमानाः प्रेस्तिाः तस्य वाणी नियोगरूपं वाक्यं न जगृहुः नाङ्गीकृतवन्तः । तत्र हेतुः -- स्वत्पादभक्तिरसिका इति । त्वत्पादाम्बुजयोः या प्रेमलक्षणा भक्तिः, तस्यां रसिका इच्छावन्तैः शरीरा दिबन्धप्रदं सर्गकर्म नैच्छनि त्यर्थः ॥ ३ ॥ तावत् प्रकोपमुदितं प्रतिरुन्धतोऽस्य भ्रूमध्यतोऽजनि मृडो भवदेकदेशः । नामानि मे कुरु पदानि च हा विरिश्चे- त्यादौ रुराद किल तेन स रुद्रनामा ॥ ४ ॥ ६५ तावदिति । यदैवं पुत्रैः स्वानुशासनं प्रत्याख्यातं, तदेत्यर्थः । उदितम् उ- त्पन्नं प्रकोपं प्रकृष्टं कोपं प्रतिरुन्धतो धिया नियच्छतोऽप्यस्य ब्रह्मणः भूमध्यतो भ्रुवोर्मध्याद् मृडोऽजान तं कोपमेव शरीरत्वेन परिगृह्य श्रीशङ्करस्तत्रावतीर्ण इत्यर्थः । स च भवदेकदेश: विष्णोरेवांश:, “परः पुरुष एक इहास्य धत्ते स्थित्यादये हरिवरिञ्चहरेत संज्ञा: ।” ( श्री. भा. स्क. १. अ. २. श्लो. इति वचनात् । स चादौ जातमात्र एव हा विरिञ्च ! मे नामानि पदानि स्थानानि च कुर्विति रुरोद किल, तेन रोदनेन स रुद् इति नाम प्राप्तवान् ॥ ४ ॥ एकादशाह्वयतया च विभिन्नरूपं रुद्रं विधाय दयिता वनिताच दवा | तावन्त्यदत्त च पदानि भवत्मणुन्न: पाह प्रजाविरचनाय च सादरं तम् ॥ ५ ॥ १. 'स्तः सन्तः श' के. पाठः, २. 'दना' क. पाठः,