पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये अथ सृष्टिभेदानाह वैकुण्ठेति दशभिः- वैकुण्ठ ! वर्धेितवलोऽथ भवत्प्रसादा- दम्भोजयोनिरसृजत् किल जीवदेहान् | स्थास्नूनि भूरुहमयानि तथा तिरक्षां जातीर्मनुष्य निवहानाप देवभेदान् ॥ १ ॥ वैकुण्ठेति । हे' 'वैकुण्ठ | विष्णो ! भवत्प्रसादाद् वर्धितबलो विद्याकर्मभ्यां प्राप्तैश्वर्यः सन्नम्भोजयोनिः अथ अनन्तरं जीवानां देहानसृजत् किल । तत्र देहाः स्थावरजङ्गमभेदाद् द्विविधाः । तदाह – स्थास्नूनीति | भूरुहमयाणि वृक्षप्रायाणि - ओषघिलतावीरुद्रपाणि स्थावराणीत्यर्थः । तिरां गवावीनां जाती:, तत्र गया- दयो द्विशफाः, अश्वादय एकशफा, श्वादयः पञ्चनखा: काककादयश्च, एतान् | देवान् मनुष्यांश्चासृजदित्यर्थः ॥ १ ॥ अथ त्रष्टुरबुद्धिकृतं तामससर्गमाह - मिथ्याग्रहास्मिमतिरागविकोपभीति- रज्ञानवृत्तिमिति पञ्चविधां स सृष्ट्रा उद्दामतामसपदार्थविधानदून- स्तेने त्वदीयचरणस्मरणं विशुद्धयै ॥ २ ॥ मिथ्येति । आत्मनोऽन्यत्वेन प्रपञ्चम्यास्तित्वप्रतीतिर्मिंथ्याग्रहः, शरीरादा- बहसमाभिमानोऽस्मिमतिः, उपभोग्यबुद्ध्या धनादिष्विच्छा रागः, धनायपहर्तरि क्रोधो विकोपः, उपभोग्यपदार्थानां व्ययनाशात्प्रेक्षया जनितं भयं भीतिः इत्येवं पञ्चविधां पञ्चप्रकाराम् अज्ञानवृत्तिम् आत्माज्ञानकार्यं मिथ्याग्रहादिपञ्चाज्ञानकार्याणि सृनेत्यर्थः । अनन्तरम् उद्दान्नां प्रभूतानां तामसपदार्थानां केवलतमोगुणकार्याणां पदार्थानां विधानेन सृथा दूनः क्षीणमानसः सन् स विशुद्ध्यै अज्ञाननिवृत्तये त्वदीय- चरणस्मरणं तेने कृतवान् ॥ २ ॥ तावत् ससर्ज मनसा सनकं सनन्दं [स्कम्ध:- ३ - भूयः सनातनमुनिं च सनत्कुमारम् । १. 'णां तामसप' ख. पाठः,