पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जगत्सृष्टिप्रकारवर्णनम् । एवमनुगृह्य भगवति तिरोहिते वेधसः प्रवृत्तिमाह ---- शतं कृततपास्ततः स खलु दिव्यसंवत्सरा- नवाप्य च तपोवलं मतिबलं च पूर्वाधिकम् । उदीक्ष्य किल कम्पितं पयसिपकजं वायुना भवर्द्धलविजृम्भितः पवनपाथसी पीतवान् ।। ९ ।। देशकम् - ९] शतमिति । सः ब्रह्मा खळु शतं दिव्यसंवत्सरान् कृतं चोर्ण तपो येन स कृततपाः ततः पूर्वाधिकं तपोबलं मतिबलं विज्ञानबलं चावाप्य स पुनः पयस्ये- कार्णवे वायुना तात्कालिकेनात्युत्कटेन वातेन कम्पितं स्वाधिष्ठानं पङ्कजमुद्वीक्ष्य भवलेन भवानेव बलं भवटूलं तेन, 'सबै बलं बलिनां चापरेषाम् ' ( श्री. भा. स्क. ७. अ. ८. श्लो. ८.) इति प्रह्लादवचनात् । विजृम्भितो वर्धेितः यवनपाथसी वायुं जलं च पीतवान् न्यपिबत् किल ॥ ९ ॥ तवैव कृपया पुनः सरसिजेन तेनैव स प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ । तथाविधकृपारो गुरुमरुत्पुराधीश्वर ! त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ।। १० ।। तवेति । स पुनस्तव कृपयैव तेनैव अतिबिपुलेन सरसिजेन भुवनत्रयीं भूर्भुवः स्वरिति त्रीन् लोकान् । प्रकल्प्येति । अत्रातलवितलसुतलतलातलमहातल- रसातलपातालानां सप्तानां भूर्लोकेऽन्तर्भावाद् महर्जनस्तपः सत्यमित्येतेषां स्वर्लोके चान्तर्भावात् त्रिलोकपक्षः कथ्यते । ततश्च तत् कमलं द्विसप्तधा विभज्य चतुर्द- श लोकानकरूपयदित्यर्थः । अनन्तरं च प्रजानां शुभाशुभादृष्टतारतम्येन तत्तल्लोक- योग्यानां जीवानां निर्मितौ शरीरविरचनायां प्रववृते प्रवृत्तवान् | हे गुरुमरुत्पुरा- धीश्वर ! तथाविधः सर्वजनविषयः कृपाभर: करुणातिशयो यस्य स त्वं गुरुदयो- क्षितैः गुर्व्या घनीभूतया दयया उक्षितैः आर्द्रीकृतैः ईक्षितैः कटाक्षैः आशु द्रुततरं मां पाहीति ॥ १० ॥ Q इति जगत्सृष्टिप्रकारवर्णनं नवमं दशकम् | १. 'प' घ. पाठः