पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२- नारायणीये (स्कन्ध:-२ एवं भगवद्रुपदर्शनानन्तरं विधेः प्रवृत्तिं वर्णयन् भगवन्तं प्रार्थयते---- श्रुतिकरदर्शितप्रचुरवैभव ! श्रीपते ! हरे ! जय जय प्रभो ! पदमुपैपि दिष्ट्या दृशो: । कुरुष्व धियमाशु मे भुवननिर्मिती कर्मठा- मिति द्रुहिणवर्णितस्वगुणबंहिमा पाहि माम् ॥ ७ ॥ श्रुतीति । श्रुतिप्रकरैः उपनिषद्वाक्यनिकरै: दर्शितं लक्षणया प्रतिपादितं प्रचुरवैभवम् अतिशयेन महत्त्वं यस्य | अथवा वैभवं जगत्सृष्ट्यादिसामर्थ्य श्रुति- भिर्जगत्कारणत्वेन प्रतिपादितमित्यर्थः । श्रीपते | जगदनुग्राहक ! हरे ! जगत्- इर्तः! त्वं जय उत्कर्षमाविष्कुरु | हर्षावेशसम्भ्रमाद् द्विरुक्तिः । हे विभो! त्वं मम दृशोः पदं गोचरम् उपैषि प्राप्तोऽसि दिष्ट्या अहो मम सुखं जातम् । ममाशु भुवननिर्मिती जगत्सृष्ट। कर्मठां समर्थो धियं कुरुष्व जगन्निर्माणेतिकर्तव्यताविषयं ज्ञानमनुगृहाणेत्यर्थः । इति दुहिणेन ब्रह्मणा वर्णितः संस्तुतः स्वगुणानाम् ऐश्वर्या- दीनां बंहिमा बाहुल्यं यस्य स त्वं त्वद्गुणानेव वर्णयन्तं पाहि हिणवात्मानं पुर: प्रदर्श्य कृतार्थीकुर्वित्यर्थः ॥ ७ ॥ अथ स्तुवतोऽस्य भगवदनुग्रहप्रकार माह--- लभस्व भुवनत्रयीरचनदक्षतामक्षतां गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे ! । भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे- सुदीर्य गिरमादधा मुदितचेतसं वेधसम् ॥ ८ ॥ लभस्वेति | अयि विधे! त्वम् अक्षताम् अनपायिनीं भुवनत्रयीरचनदक्षतां त्रैलोक्यनिर्माणसामर्थ्यं लभस्व प्राप्नुहि । मदनुग्रहं गृहाण, तब जगन्निर्माणविधौ यद्यदनुगृह्णामि तत्तत् परित्यर्थ: । भूयस्तपः कुरु । किञ्च तव मय्यखि- लसाधनी यद्यदिच्छसि, तस्य तस्यानायासेन निष्पादयित्री अत्युत्कटा प्रष्टप्रे- मलक्षणा भक्तिश्च भवत्विति गिरमुदीर्योक्ता बेधसं ब्रह्माणं मुदितचेतसं सन्तुष्टमा- नसम् आधाः कृतवानसि ॥ ८ ॥ १. 'चि' मूलकोशपाठ:.