पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये तत इति । अयि ! भगवन् ! ततः तव विलोकनानन्तरं त्वदीयाद् ना- भिरन्धात् किञ्चन दिव्यं प्रकाशबहुलत्वात् सत्त्वमयं पद्मस् उदञ्चितम् उद्भूतम् । निश्शेषाणां जीवतदुपभोग्यानां पदार्थानां माला समूहः, तस्य सङ्गेष: सूक्ष्मरूपेणा- वस्थानं तद्रूपं निश्शेषप्रपञ्चबीजरूपनित्यर्थः । मुकुलायमानं सुकुलावस्थया स्थि- तदेतदम्भोरुहकुमलं ते कलेवरात् तोगपये मरूढम् । बाहिर्निरीतं परितः स्फुरद्भिः स्वधामभिर्ध्वान्तमलं न्यकृन्तत् ॥ ११ ॥ तदेतादेति । तदेतदम्भोरुहस्य कुड्मलं मुकुलं ते तब श्रीनारायणस्य क लेबरात् शरीरातू तोयपथे परितो जलावृतत्वाजलप्रदेशे प्ररूढम् अङ्कुरितम् | क्रमाज्जलमतिक्रम्य बहिर्निरीतम् । ततश्च परितः स्फुरद्भिः स्वधामभिः निजदीप्ति - भिः ध्वान्तमलं तमोरूपं मलं, यहा अलम् अतिशयेन ध्वान्तं न्यकृन्तद् उन्मू- लितवदित्यर्थः ॥ ११ संफुलपत्रे नितरां विचित्रे तस्मिन् भवदीर्यते सरोजे । स पद्मजन्मा विधिराविरासीत् स्वयंप्रबुद्धाखिलवेदराशिः ॥ १२ ॥ सम्फुलपत्र इति । सम्यक् फुल्लानि विकसितानि पत्राणि दलानि यस्मि- स्तत् तथा नितराम् अतिशयेन विचित्रे असामान्ये भवत ईश्वरस्य वीर्येण यो- गबलेन घृते प्रतिष्ठिते तस्मिन् सरोजे स त्वमेव विधिराविरासीद् ब्रह्मणो रूपं गृ- हीत्वा प्राविशैदित्यर्थः । अत एव पद्मजन्मेति नामाप्यासीत् । किञ्च स्वयम् उप- देशनिरपेक्षं प्रबुद्धाखिलवेदराशि: अर्थावबोधपर्यन्तमवगतनिगमसमूह:, स्वतः स र्वज्ञश्चाभूदित्यर्थः ॥ १२ ॥ अस्मिन् परात्मन् ! ननु पाद्मकल्पे त्वमित्यमुत्थापित पद्मयोनिः । अनन्तभूमा मम रोगराशि निरुन्धि वातालयवास ! विष्णो ! ॥ १३ ॥ अस्मिन्निति । परात्मन् ! हे परमात्मन्! जगत्कारणभूत ! अस्मिन् ननु पाझकल्पे इत्थमुक्तप्रकारेण उत्थापितः सृष्टः पद्मयोनिर्येन स तथा अनन्तभूमा १. 'सी: त्र'.ख. पाठः, २. 'श इत्य' ख. पाठः,