पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये सयोगवलविद्यया समवरूढवान् प्रौढधी- स्त्वदीयमतिमोहनं न तु कलेवरं दृष्टवान् || ३ || अमुष्येति । अनुष्य मदधिष्ठितस्य सरोरुहः सरोजस्याधस्तात् किमपि का- रणम् अधिष्ठानं सम्भवेत् । सम्भावनायां लिङ् | इतिस्म कृतनिश्चयः स खलु ब्रह्मा नालरन्ध्राध्वना कमलदण्डस्य रन्धं सुषिरमेव अध्वा मार्गः, तेन समवरूढ- बान् अवरोद्दणं कृतवान् । कथमस्यैतदुपायबोध इत्यत आह - प्रौढधीरिति । प्रौ- ढा ऊहापोहनिपुणा धीर्यस्य स तथा । ननु बुद्धिसामर्थ्ये सत्यपि सुसूक्ष्मरन्ध्रप्रवेशः कथं सम्भवेदित्यत आह - सयोगबलविद्ययेति । योगबलं तपोबलं विद्या आत्मज्ञा- नम् । योगबलसहितया विद्ययेति । तपसा विद्यया च प्राप्तैश्वर्यतयातिसूक्ष्मशरीरो भूत्वा तत्सरोरुहनालरन्धं प्रविष्टवानित्यर्थः । तदैपि त्वदीयमतिमोहनं लोकोत्तर- सौन्दर्ययुक्तं कलेबरं मूर्ति बहिर्मुखैर्व्यापार्दुप्प्रापं न तु दृष्टवान् नैव ददर्श ॥ ३ ॥ ततः सकलनालिकाविवरमार्गगो मार्गयन मयस्य शतवत्सरं किमपि नैव सन्दृष्टवान् | निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधी: समाधिबलमादधे भवदनुग्रहैकाग्रही ॥ ४ ॥ [स्कन्ध: - ३ - तत इति । ततः अनन्तरं सकलानि नालिकाविवराणि नालरन्ध्राण्येव मार्गाः, तान् गच्छतीति सकलनालिकाविवरमार्गग: मार्गयन् अन्वेषणं कुर्वन् । अयमर्थ:- कमलनालस्य बहुरन्ध्रत्वादेकेन रन्ध्रेणावरुद्यान्विष्यादृष्ट्वा पुनरन्येन पुनश्चान्येनैव- मतन्द्रितोऽन्विष्टवानित्यर्थः । एवं शतवत्सरं दिव्यसंवत्सराणां शतं प्रयस्य प्रयासं कृत्वा कमलस्याश्रयत्वेन किमपि वस्तु नैव सन्दृष्टवान् | निवृत्येति ईश्वर- स्यानुग्रहं बिना किमपि ज्ञातुं कर्तुं वाशक्यमिति निश्चित्य बहिर्मुखात् प्रयासा- निवृत्य विरम्य कमलोदरे सुखनिषण्ण इत्यष्टाङ्गोपलक्षणम् । एकाग्रधीरिति धार- णोच्यते । समाधिबलं समाधेश्चिचैकाग्र्यस्य बलम् अचाञ्चल्यम् आदधे कृतवान् | भवदनुग्रह एकस्मिसेवाग्रहोऽस्यास्तीति भवदनुप्रहैकामही ॥ ४ ॥ १. 'या' क. पाठ:. २. 'रंब' ख. पाठः,