पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मलयवर्णनम् । कालारुयशक्ति प्रलयावसाने प्रबोधयेत्यादिशता *किलादौ । त्वया प्रसुप्तं परिसुप्तशक्तित्रजेन तत्राखिलजीवधाना ॥ ७ ॥ दशकम् - ८] - १७ कालेति । तत्रादौ प्रलयारम्भे परिसुप्तशक्तित्रजेन परिसुप्तो निलीन: श- क्तीनां मूलप्रकृतिमहदहङ्कारादीनां ब्रजः समूहो यस्मिन्, तथाभूतेन अखिलजीव- धाम्ना संसारदुःखखिन्नानां जीवानामतिचिरकालं विश्वमस्थानभूतेन कालाख्यश- क्ति प्रलयावसाने चतुर्युगसहस्रलक्षणाया रात्रेरवसाने सति त्वं मां प्रबोधयेत्यादि- शता आज्ञापयता च त्वया तथा कालाख्यशक्तया सह प्रसुप्तं शक्तिशक्तिमतोर- भेदमवलम्ब्य स्थितम् । यथा कश्चिद् बहुभार्यः पुरुषः इतरासु प्रसुप्तासु दयितया सह कश्चित् कालं वसन् सुप्रबोधां तां प्रभाते त्वं मां प्रबोधयेत्यादिश्य तयैव सह गाढगाढमालिङ्गय सुसुखं निद्रां गच्छति, तद्वदिति भावः ॥ ७ ॥ चतुर्युगाणां च सहस्रमेवं त्वयि प्रसुप्ते पुनरद्वितीये | कालाख्यशक्तिः प्रथमप्रबुद्धा प्राबोधयत् त्वां किल विश्वनाथ ! ॥ ८ ॥ चतुर्युगाणामिति । अद्वितीये त्वयि एवं चतुर्युगाणां सहस्रं यावत्प्रलया- वसानं प्रसुप्ते सति पुनः कालाख्यशक्तिः प्रथमत्रवुद्धा हे विश्वनाथ ! त्वां प्राबोध- यच्च | किलशब्दोऽत्र केवलपुराणप्रसिद्धिं द्योतयति ॥ ८ ॥ विबुध्य च त्वं जलगर्थशायिन् ! विलोक्य लोकानखिलान् मलीनान् । तेष्वेव सूक्ष्मात्मतया निजान्तःस्थितेषु विश्वेषु ददाथ दृष्टिय् ॥ ९ ॥ विबुध्येति । हे जलगर्भशायिन् ! आवरणोदकमध्यशायिन्। त्वं प्रबुध्य अखिलान् लोकान् त्वाये मलीनान् विलोक्य । ननु मलीनानां कुतो विलोकनस म्भवस्तत्राह -~-तेप्विति । सूक्ष्मात्मतया कारणरूपेण निजान्तः स्थितेषु तेष्वेव विश्वेषु लोकेषु दृष्टिं ददाश च दत्तवान् ईक्षितवानित्यर्थः ॥ ९ ॥ नामिपद्मद्वारा प्रपञ्चसृष्टिप्रकारमाह -- ततस्त्वदीयादयि ! नाभिरन्ध्रादुदञ्चितं किञ्चन दिव्यपद्मम् । निलीननिश्शेषपदार्थमाला सङ्क्षेपरूपं मुकुलायमानम् ॥ १० ॥

  • 'तयादौ ' इति ब्याख्यातूपाठ: स्यात् ।