पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्धः - ३ - तत्रान्त्यरात्रिजनितान् कथयामि भूमन् ! पश्चाद् दिनावतरणे च भवद्विलासान् ॥ ४ ॥ पञ्चाशदिति | असौ ब्रह्मा अधुना पञ्चाशद् अब्दाः संवत्सरा: प्रमाणं यस्य तत् पञ्चाशददं स्वस्य वयसो द्विपरार्धलक्षणस्यार्धरूपं पूर्वार्धात्मकमेकं परार्धमतिवृत्य अतिक्रम्य वर्तते । हिशब्दः प्रसिद्धौ । अयं वाराहः कल्पो द्वितीयपरार्धस्यादिरिति प्रसिद्ध इत्यर्थः । तत्र तेषु कल्पेप्यादिमो ब्राह्मः कथितः । पुनश्च अन्त्यरात्रिजनितानिति समनन्तरातीतः पाद्मः कल्पः, तस्मा- दर्वाचीना रात्रिः प्रथमपरार्धस्यान्त्यरात्रिः, तस्यां जनितान् पश्चात् पुनश्च दिनाव- तरणे (पाद्म/वाराह) कल्पारम्भे च हे भूमन् ! कालदेशापरिच्छिन्न ! ये भवद्विलासाः भवतः सर्गप्रलयसम्बन्धिन्यो लीलाः, तान् विलासान् कथयामि स्तोतुमारभ इत्यर्थः ॥ दिनावसानेऽथ सरोजयोनिः सुषुप्तिकामस्त्वयि सन्निलिल्ये । जगन्ति च त्वज्जटर समीयुस्तदेदमेकार्णवमास* विश्वम् ।। ५ ।। दिनावसान इति । अथ सरोजयोनिर्ब्रह्मा दिनावसाने प्राक्कल्पावसाने सुषुप्तिकामः त्वयि श्रीनारायणे सन्निलिये निलीनः सन् निद्रां कृतवान् | जग- न्ति लोकाश्च तदा त्वज्जठरं तवोदरदेशं समीयुः ब्रह्मणा सह प्राप्ताः । तदा प्र लये इदं विश्वम् एकार्णवं जलमात्रशेषम् आस अभूत् ।। ५ ।। तवैव वेषे फणिराजि शेषे जलैकशेषे भुवने स्म शेषे । आनन्दसान्द्रानुभवस्वरूपः स्वयोगनिद्रापरिमुद्रितात्मा ॥ ६ ॥ तवेति । एवं भुवने जलैकशेषे जलमात्रशेषे सति त्वं तव वेषे अवस्थाभे- दरूप एव शेषे अनन्ताख्ये फणिराजि नागश्रेष्ठे शेषे स्म अशयिष्ठाः । आनन्द- श्चासौ सान्द्रश्च स एवासावनुभवः सम्यग्ज्ञानं तद्रूपः । अत्र सान्द्रत्वमान- न्दानुभवेतररूपराहित्यं सच्चिदानन्दस्वरूप इत्यर्थः | योगः स्वस्वरूपानुसन्धानं स एव निद्रेव निद्रा योगनिद्रा स्वीयया योगनिद्रया परिमुद्रितः सम्यग् ला- । ञ्छितः आत्मा स्वरूपं यस्य स तथा ॥ ६ ॥ २. 'निद्रा यो' ख. पाठ: १ 'वे तद्रूप' ख पाट:

  • आस प्रचकाशे । ‘अस गतिघ्यादानेषु । भ्वादिः । आसत्यव्ययं वा तिङ्झतिरूपम

स्त्यर्थकम् ।