पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोऽयं चतुर्युगसहस्रमितान्यहानि तावन्मिताथ रजनीबहुशो निनाय । निद्रात्यसौ त्वयि निलीय समं स्वसृष्टै नैमित्तिकमलयमाहुरतोऽस्य रात्रिम् || २ || स इति । सोऽयं ब्रह्मा चतुर्युगाणां सहस्रसङ्ख्या मितानि परिच्छिन्नानि अहानि दिनानि कल्पाख्यानि ताबन्मिताः तत्समप्रमाणा रजनी रात्रीश्च ब- हुशो निनाय बहुवारं नीतवान् । असौ खप्सृष्टैश्चराचरैः समं सह त्वयि श्रीना- रायणे निलीय निद्रातीति, अहःअये हि ब्रह्मा स्वसृष्टं चराचरं सङ्गृहन्नेकार्णवेऽही- न्द्रतल्पमधिशयानेन श्रीनारायणेन सहकीभूय निद्रां गच्छति । अतः प्रलयस्य ब्रह्मणः स्वापनिमित्तत्वादस्य रात्रि नैमित्तिकालयमाहुर्वदन्तीति ॥ २ ॥ अस्मादृशां पुनरहर्मुखकृत्यतुल्यां सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् । प्राग् ब्राह्मकल्पजनुषां च परायुषां तु सप्तभवोधनसमास्ति तदा विसृष्टिः ॥ ३ ॥ अस्मादृशामिति । स पुनर्ब्रह्मा अस्मादृशामहर्मुखे यानि कृत्यानि शौचाचम- नप्राणायामसन्ध्यावन्दन जपहोमादीन्यनुदिनमनुष्ठेयानि कर्माणि, तत्तुल्यां सृष्टिं सो- ऽपि भवत्प्रसादादनुदिनं करोति । अत्र च प्राक् पूर्व ब्राह्मे कल्पे जनुर्जन्म येषां ते तथा परम् अतिचिरकालम् आयुर्वेषां तेषां मार्कण्डेयादीनामपि तदा नमि- त्तिकप्रलयावसाने सुप्तप्रबोधनसमा स्वापप्रबोधतुल्या । ननु तेषामपि ब्रह्मण इब सुप्तप्रबोधस्त इत्येव वाच्यम् 1 किमिति कल्पादौ सृष्टिरस्तीत्युच्यते, मैवं, तेषां ब्रह्मणि लीनत्वात् पुनश्च ब्रह्मणैव सृष्टत्वाच | ब्रह्मणः पुनः ब्रह्मसृष्टयभा- वात् स्वापप्रबोधावेव । ननु तर्ह्यस्मादृशामिव सृष्टिरेवास्तु, किमर्थमुच्यते सुप्तप्रबो- धनसमेति, मैवं, प्राक्कल्पविषयानुस्मरणानषायात् सुप्तप्रबोधेन तुल्यत्वम् । अ स्मादृशां तु तदभावात् सृष्टिरेवेति भेद इति युक्तमुक्तम् ॥ ३ ॥ पञ्चाशदब्दमधुना स्ववयोर्धरूप- मेकं परार्धमतित्य हि वर्ततेऽसौ । 'धौ न स्त' क. पाठः,