पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ तृतीयस्कन्धपरिच्छेदः । उक्तरूपेश्वरोपास्तिविघ्न जालनिवृत्तये । विष्णुलीलानुसन्ध्या तत्र सर्गो निरूप्यते || एवं मुमुक्षूणामुपासनासिद्धये समग्र समाधिसामग्री दर्शिता 1 तत्र योगा- न्तराया व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिमनोलब्ध भूमिकत्वानवस्थितत्वानि दुःखदौर्मनस्याङ्गकम्पश्वासप्रश्वासाः तत्सहभुवश्च । तत्र व्याधिर्ध्यानाकल्यता । अवि रतिर्विषयेच्छा | अलव्धभूगिकत्वं समाधिभूमेरलाभः | समावेरुत्थानदशायामेतेषां शमनार्थमिष्टावाप्त्यर्थं च भगवदवतारलीलानुसन्धानं कर्तव्यम् । तदुक्तं + "जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ! ॥" (भ.गी. अ. ४. श्लो. ९) इति । तत्र लीला दशविधा- - “अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः | मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ॥' (श्री. भा. स्क. २. अ. १०. श्लो. १) इति वचनात् । तत्रापि प्रथमं भगवतः सृष्टिलीलां तदुपयोगिनस्तत्प्रासाङ्गकांश्च वराह- कपिलचतुःसनश्रीरुद्रनारद मन्वादी नवतारान् दर्शयितुमारभते---- एवं तावत् प्राकृतमक्षयान्ते ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा | ब्रह्मा भूयस्त्वत्त एवाप्य वेदान् सृष्टि चक्रे पूर्वकल्पोपमानाम् ॥ १ ॥ एवमिति । प्राकृतप्रक्षयो महाप्रलयः, तस्यान्ते अवसाने सति आदिम बा कल्पे शब्दब्रह्माख्यम्येदानीन्तनस्य ब्रह्मण आदिदिनारम्भे त्वत्तो विष्णो- लेब्वजन्मा जातः सन् ब्रह्मा भूयः पुनः त्वत्त एव वेदान् ऋगादीन् आप्य ल ध्वा पूर्वकल्पोपमानां सृष्टिं चक्रे, यथर्तुषु ऋतुलिङ्गानि एकरूपाणि तथा प्रति- कल्पं सृष्टिसाम्यमिति महाभारतोक्तेरुत्तरोत्तरेषु कल्पेषु पूर्वपूर्वकल्पसमानां सृष्ट बहुशोऽसौ कृतवानित्यर्थः ॥ १ ॥