पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगवदनुग्रहवर्णनम् । द्वैताद्वैतं यद् भवत्स्वरूपं परावरे ब्रह्मणी, तत्परं तद्वेिषयं तद् यथार्थं ज्ञानम् आपा- दय मय्यनुग्रहेणोत्पादयेति यमाचष्ट, तं त्वां भजे ॥ ९ ॥ दशकम् - ७] १० आताम्रे चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन् बोधस्ते भविता न सर्गविधिभिर्वन्धोऽपि सजायते । इत्याभाष्य गिरं प्रतोष्य नितरां तच्चित्तगूढः स्वयं सृष्टौ तं समुदैरयः स भगवनुल्लासयोल्लाघताम् ॥ १० ॥ आताम्र इति । ( अथ स भगवान् ?) आताम्रे अरुणसरोजवदीपत्ताम्रवर्णे चरणे विशेषेण भक्तिविश्वासबहुमानादिभिः सह नम्र नमनशीलं तं ब्रह्माणं सखा सखायमिव हस्तेन हस्ते स्पृशन् ते बोधो भविता यत् प्रार्थितं तद् ज्ञानं तवा- चिरादेव भविष्यात, किञ्च सर्गविधिभिः सृष्टिव्यापारैः बन्धः शरीरबन्धोऽपि न स जायत इति गिरमाभाष्य सानुसरणमुक्ता नितराम् अतिशयेन प्रतोप्य सन्तुष्टं कृत्वा स्वयं तच्चित्तगूढः तस्य ब्रह्मणः चित्त एवान्तर्हितः सन् तं ब्रह्माणं सृष्टौ समुदैरयः ब्रह्मणो हृद्यन्तर्यामिरूपेण स्थित्वा सृष्टौ तं सम्यक् प्रेरितवान् यः, स त्वं भगवन् ! उल्लाचतां ममारोग्यम् उल्लासय सम्यक् संपादयेत्यर्थः ॥ १० ॥ ४९ ॥ त्रिगुणं द्विगुणं शुद्धसत्त्वैकगुण निर्गुणम् । द्वितीये सफलं रूपमुपास्यमुपवर्णितम् || इति हिरण्यगर्भोत्पत्ति तपश्चरण-वैकुण्ठस्वरूप-भगवत्स्वरूपसाक्षात्कार-भगवदनुग्रहवर्णनं सप्तमं दशकम् । इति नारायणीयस्तोत्रव्याख्यायां भक्तप्रियाख्यायां द्वितीयस्कन्धपरिच्छेदः । आदितः लोकसङ्ख्या ७५