पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यद्यप्येतावत् पुण्यं मम नास्ति, तथाप्येतत् प्रार्थय इत्याह कालीम्भोदकलायकोमलरुची चक्रेण चक्रं दिशा- मावृण्वानमुदारमन्दहसितस्यन्दप्रसन्नाननम् । राजत्कम्बुगदारिपङ्कज पर श्रीमद्भजामण्डलं खडस्तुष्टिकरं वपुस्तव विभो ! मद्रोगमुद्रासयेत् ॥ ८ ॥ 3 कालेति । कालाम्भोदवत् कलायकुसुमवच्च कोमला या रुच्य: शोभाः, तासां चक्रेण मण्डलेन दिशां चक्रं मण्डलम् आवृण्वानम् आच्छादयद् उदारस्य अतिमनोहरम्य मन्दहसितस्य स्यन्देन निरन्तरप्रसरेण प्रसन्नमाननं यत्र तत् तथा विराजमानशङ्खगदांचक्राम्बुजधारि श्रीमत् शोभानित्ययुक्तं भुजामण्डले यस्मिस्तत्प्रुर्ब्रह्मणः तुष्टिकरं हे विभो ! तव वपुर्मद्रोगं ममामयम् उद्धासयेद् उच्चाटयेद् मम मनसि त्वद्रुपमा विर्भवेद् यदि, मद्रोगाः पातकहेतुकाः पलायेरन्नेव । 66 'स्मृते मनास गोविन्दे दूरतो यान्ति पातकाः । उदयाचलमारूढे दिननाथे तमो यथा ॥ " इति वचनादिति तदप्याशास्यत इत्यर्थः ॥ ८ ॥ मसयशादी सुक्येवमाशास्त्र प्रस्तुतमविस्मरन्नाह ---- दृष्टा सम्भृतसम्भ्रमः कमलभूस्त्वत्पादपाथोरुहे हर्षावेशवशंवदो निपतितः मीत्या कृतार्थीभवन् । जानास्येव मनीषितं मम विभो ! ज्ञानं तदापादय द्वैताद्वैतभवत्स्वरूपपरमित्याचष्ट तं त्वां भजे ॥ ९ ॥ दृष्ट्येति । कमलभूः ब्रह्मा तव तद् वपुर्दृष्ट्वा सम्भृतसम्भ्रमः झटिति कर्त- व्येषूपचारपूजानतिनुत्यादिष्वितिकर्तव्यता मौढ्य मापादयता सम्भ्रमेण कश्चित् कालं किञ्चिदपि कर्तुमचमोऽवस्थितः सन् हर्षस्य भगवत्सन्निधानजन्यस्यावेशस्य वशंबदः अधीनश्च सन् त्वत्पादपाथरुहे तव पादाजे निपतितः साष्टांङ्गं दण्डवत् पतितः । पुनश्चोत्थाय मीत्या कृतार्थीभवन्नित्याचष्ट उक्तवान् । हे विभो ! त्वं मम मनोषित हृद्रतं जानास्येव, सर्वजनबुद्धिसाक्षित्वात् । तथापि वक्ष्यामीत्यभिप्रायेणाह ---

  • ऋदिकारादतिन इति ङीष ।