पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लक्ष्यते । तत्रस्यानां नयनगोचरीभवति । कीदृशी, नानादिव्यवभूजनैः बहुविध दिव्याङ्गनासहस्त्रैरभिता परिवारिता । विद्युततुल्यया सुधालिमविद्युत्समया । विश्वोन्मादनह्या चासौ गात्रलता चेति कर्मधारयः तया करणेन विद्यौतिता- शान्तरा प्रकाशित दिगन्तराला सती । किञ्च, विस्मयनीया इतरत्राश्रुतपूर्वाः दिव्याः सात्त्विका बिभवा उपकरणानि यस्याः सा तादृशी न सती लक्ष्यत इति । अध विस्मयनीयादेव्यविभवमिति चेत् पाठः तदा ते तत् पदमिति सम्बन्धः | तन्मे देहि तद् बैकुण्ठपदं मामत्युत्युकं प्रापये का ले हानिरिति शेपः ॥ ६ ॥ 2 · प्रसङ्गे सति पद्यत्रयेण वैकुण्ठपदं वर्णयित्वा स्वस्य तात्कण्ठामपि प्रका- स्य प्रकृतेऽवतरति ---- तत्रैवं प्रतिदर्शिते निजपढे रवासनाध्यासित भास्वत्कोटिलसत्किटिकटकायाकल्पीति | श्रीवत्साङ्कितमात्तकौस्तुभमणिछायारुणं कारणं विश्वेषां तत्र रूपमैक्षत विधिस्तत् ते विभो ! भातु मे ॥ ७ ॥ 3 तत्रेति । सत्र तस्मिन् एम् उक्तमकारेण प्रतिदर्शित प्रसादेन प्रकाशिते, स्वयंति शेषः । निजपदे आत्मलोके विधिर्ब्रह्मा तव रूपमैक्षत दृष्टवान् । कीदृशं तदित्यत आह -- रत्नासनाध्यासितं मणिसिंहासनोपविष्टं | भास्वदिति । कोटिस- सत्यापरिमितादित्यबिम्बसन्निपातसद्भिः शोभमानैः किरीटकटकादिभिराकल्पैर्भू पणैदीप्रा आकृतिर्यस्य तत्, श्रीवत्सेन भृगुपदन्यासाङ्केतिम्, आत्तस्य स्वीकृतस्य कौस्तुभमणे : कौस्तुभाव्यरत्नस्यच्छाया शोभ्या सर्वाङ्गीण अरुणं पाटलं प्राप्त- परभागमित्यर्थः, विश्वेषां चराचराणां कारणम् उपादानकारणभूतं यत्, तद् रूपं ब्रह्मा दृष्टवान् | हे विभो विश्वव्यापिन् तत् तादर्श ते तव रूप मे भातु ममापि प्रत्यक्षं भवतु | इदमत्राकूतं स्वस्थानस्थिताय ब्रह्मणे यः प्रसीदन् आ. स्मीयमद्भुतं वैकुण्ठलोकं तत्र रत्नगृहे सणिमयासनोपविष्टं प्रकृष्टदिव्याकल्पप्रभा- पटलपाटलं स्वरूपं च [य::] प्रदर्शितवानसि, तम्य ते मत्पुरतोऽप्येचं प्रादुर्भवि- तुं प्रयासो नास्त्येव । अतोऽहं प्रार्थयेतरां तन्मे भाविति ॥ ७ ॥ > 1 १. 'तद्वदत्थुज्ज्वलया' ऋ. पाठः २. नि अलङ्कारादीनि यी क, पाठः ३. 'येसर्थः ॥ तंत्र' क्र. ग. पाठः, ४ 'तु ॥ किञ्च, काला' क, ग. पाठ,