पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ७] कुण्ठस्वरूपवर्णनम् | सामर्थ्य भविष्यतीति मां प्रतीदमीश्वरप्रेरणामति निश्चिन्वानेनेत्यर्थः । अनन्तरं च स्वाधिष्ण्यमेवाधिष्ठाय दिव्यं वर्षसहसमित्यत्यन्तसंयोगे द्वितीया । तं स्वीकृतम् अनुष्ठितमिति यावत्, तपो येन तादृशेन तेन ब्रह्मणा आराधितः सेवितस्त्वं तस्मै ब्रह्मणे स्वनिलयं स्वधिष्ण्यभूतं वैकुण्ठं वैकुण्ठलोकं दार्शतवानसि । कोह- शम् एकाद्भुतम् एकं मुख्यमद्भुतम् आश्चर्यम् । यस्मादद्भुतान्तरं नास्ति, तदेका- द्भुतं तादृशामित्यर्थः ॥ ३ ॥ J एकाद्भुतत्वं प्रतिपादयति मायेति त्रिभिः माया यत्र कदापि नो विकुरुते भाते जगद्भ्यो बहिः शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः । सान्द्रानन्दझरी च यत्र परमज्योति प्रकाशात्मके तत् ते धाम विभावितं विजयते वैकुण्ठरूयं विभो ! ॥ ४ ॥ मायेति । यत्र यस्मिन् वैकुण्ठनिलये माया कदापि ब्रह्मण उत्पत्तौ प्रल- येsपि नो विकुरुते आत्मनः शरीरादेवेंश्वरात् पृथक्त्वेन प्रदर्शनरूप कार्य न करोतीत्यर्थः । तथाच सति कामक्रोधादिसम्भवाभावः किमु वक्तव्य इत्याह- शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गता इति । शोक: पीडा, क्रोधो- इमर्षः, विमोहः शरीरादिष्वहंममाभिमानः, साध्वलं मरणादिमयम् एताया भावा: पदार्थास्तु दूरं गताः, यस्मादिति शेषः । यत्र च सान्द्रस्य घनीभूतस्या- मन्दस्य झरी प्रवाहः, वर्तत इत्यर्थात् । यत्र स्थितानां सर्वदा ब्रह्मानन्दानुभव एव भवतीत्यर्थः । ननु सत्यलोकेऽप्यस्ति लेशतः शोकः । तदेकदेशश्चेद् वैकुण्ठ- लोकः, कथंकारं क्लेशलेशराहित्यमित्याशङ्कायामाह - जगच्यो बहिर्भात इति । - चतुर्दशभ्यो लोकेभ्यो बहिर्भाते शोभित इत्यर्थः । अत एव परमज्योति प्रका- शात्मके, नात्रादित्यचन्द्रादिज्योतिषां प्रकाशः, किन्तु तेषामपि प्रकाशकं ज्योतिः परमज्योतिः, आदित्यादिप्रकाशकत्व प्रदं ज्योतिर्ब्रह्म, तदेव प्रकाशो यत्र स पर मज्योति प्रकाश, तदात्मके तादृशस्वरूपे । हे विभो ! विश्वव्यापिन् । विभावित , - ★ १. 'स्यादित्यहं श्रीनारायणेन प्रेरितस्तस्य वाक्यमेतदिति निश्चिततेत्यर्थः क. ग. पाठ:. २. 'रं स्व' ख. पाठ:. ३. 'मातेन चीर्णेन तपसा अष्टानयोगेन, आत्तं तपो येनेति वा विग्रहः । तेन ब्रह्मणा त्वमीश्वर आराधितः सेवितः, ततस्त्वं तस्मै ब्रह्मणे वैकुण्णाख्यं स्वनिलयं 'इ' क. ग. पाठः, ४, 'तं य' क. ग. पाट:. ५. 'तम् ॥' ख, पाठ..