पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये कमण्डलाक्षसूत्रस्रुक्खुव पुस्तकधारिणी । प्रसन्ना ब्रह्मणो मूर्तिश्चिन्तनीया सुरैरपि" ॥ १ ॥ सोऽयं विश्वविसर्गदत्तदृदयः संपश्यमानः स्वयं बोधं खल्वनवाप्य विश्वविषयं चिन्ताकुलस्तस्थिवान् | तावत् त्वं जगतां पते ! तप तपेत्येवं हि वैहायसीं वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वस्तपःप्रेरणाम् ॥ २ ॥ [स्कन्धः -- २ स इति । सोऽयं विश्वेषां चराचराणां विसर्गे गुणवैषम्याद् विविधे सर्गे सृष्टौ दत्तहृदयः उत्साही सन् स्वयं संपश्यमानो जिज्ञासमानो विचारयन् विश्व- विषयं बोधं किमाश्रय किंवा कोदृग् वाहं सृजामीत्यजानन् चिन्ताकुलस्त- स्थिवान् तस्था । हे जगतां पते ! लोकोत्पत्तिस्थितिलयकुशल ! तावत् तस्मिन्नव सरे त्वमेनं ब्रह्माणं तर तपेत्येवं वाणीं तपसि प्रेरणात्मकं विधिं कुर्वन् अशिश्रवः श्रावितवानसि । कहिशीं वैहायसीं बिहायस्यभिव्यक्ताम् अदर्शितशरीरामित्यर्थः । अश्रापि श्रुतिसुखां श्रोत्रानन्ददायिनीम् ॥ २ ॥ "" तंद्रचनानन्तरं विधेः प्रवृत्तिमाह- कोऽसौ मामवदत् पुमानिति जलापूर्ण जगन्मण्डले दिदीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता | दिव्यं वर्षसहस्रमाततपसा तेन त्वमाराधित- स्तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भुतम् ॥ ३ ॥ कोऽसाविति । जगन्मण्डले जलापूर्णे सति कोऽसौ पुमान् मामजदत् । जलमात्र शेषे जगति सतिमां कश्चिदन्तर्हितोऽयमीदृशीं गिरमुक्तवान् किल । स पुमान् कः । न च कोऽपि नास्तीति शक्यं वक्तुम् । असौ इति । व्यक्तस्य वच- सः श्रवणात् कोऽपि वक्तास्तीत्यनुमयत एव । अतः स द्रष्टव्य इति दिक्षु चतसृषूवीक्ष्य तद्द्वकृदिदृक्षया स्वस्थानादुत्थाय परिक्रामन् मुखमुन्नमय्यावलोक्य किमप्यनीक्षितवता न केवलं वक्तारं पुमांस, जलाइन्यत् किञ्चिदपि वस्त्वदृष्टवता तेन पुनस्तद्वाक्यार्थी विचार्योत्पश्यता जानता त्वं तपश्चर, ततस्ते सृष्टि- १. 'एवं तपसि भगवत्प्रेरणान' क. पाठः,