पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हिरण्यगर्भोत्पत्तिवर्णनम् । ति दर्शयन् भगवन्तं प्रार्थयते तस्येति । तस्य तादृशस्य विराजः अन्तरात्मव पुषे अन्तर्यामिरूपाय बिमलात्मने शुद्धसत्त्वमयमूर्तये ते तुभ्यं नमोऽस्तु | हे बाता- ल्याधिप ! एवं क्रमादुपासनासामर्थ्याय मम रोगान् निरुन्धि नाशयेत्यर्थः ॥ १ ॥ इति विराइदेहस्य जगदात्मत्ववर्णनं षष्ठं दशकम् | दशकम् - ७] h दर्शयति एवं त्रिगुणात्मके भगवद्पे स्थिरमनसो द्विगुणात्मकहिरण्यगर्भाख्य भगवद्रूपं --- एवं देव ! चतुर्दशात्मकजनभूपेण जातः पुन- स्तस्यो खलु सत्यलोकनिलये जातोऽसि धाता स्वयम् । यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं योऽभूतस्फीसृिक्षारसः ॥ १ ॥ wwwwww एवमिति । अत्रायमभित्रायः - स्थूलसूक्ष्मक्रमेण हि बुद्धयोऽर्थमवगाहन्त इति प्रथमं त्रिगुणात्मके भगवद्रूपे मनः प्रणिधाव तत्र स्थिरं सद् द्विगुणात्मके, ततः परं सत्त्वैकगुणे, ततब्ध निर्गुणे सूक्ष्मे ब्रह्मणि प्रवेश्य निरतिशयानन्दलाभेन कृतकृत्यतामेतीति । हे देव एवं चतुर्दशात्मकजगदूपेण जातस्त्वं स्वयं खलु त्वमेव पुनरनंन्तरं तस्य जगत ऊर्ध्वम् उपरि सत्यलोकनिलये धाता जातोऽसि । यं त्वां हिरण्यगर्भ शंसन्ति शास्त्रविद इति शेषः । यतोऽखिलनैलोक्यस्य बिराजो जीवः पञ्चप्राणमनोबुद्धिदशेन्द्रियात्मकलिङ्गशरीरसमयभिमानी, तदात्मकं तत्स्व- रूपम् । यः स्फीतैः प्रवृद्धै: रजोविकारैः रजोगुणकार्यैः अत्र भेदबुद्धिरुपकारबुद्धी रागादयश्च रजःकार्याणि तैर्विकसन आविर्भवन् नाना सुरनरतिर्यगादिशरीराणि तद्भोग्यानि च स्रष्टुमिच्छा सिक्षा तस्यां रस आग्रहो यस्य स विकसन्नानासिस - क्षारसः । अत्र ब्रह्ममूर्तिर्विश्वकर्मशास्त्रे दर्शिता -- १ "हंसारूढा चतुर्वॠा तप्तकाञ्चनसन्निभा | शुक्लबस्ला लम्बकर्णकूर्चसौम्या चतुर्भुजा || तुन्दिला सोत्तरीयोपवीता योगपदासना | जटामकुटशोभाव्या पिङ्गलांक्षी वरप्रदा ||