पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये वर्णानां भवनं स्थानम् । विप्राणां स्थानं तब मुखं, क्षत्रियाणां स्थानं तब बाहुः, वैश्यानां स्थानं तवोरुयुग्मम्, शुद्धाणां स्थानं तव चरणौ चेत्यर्थः ॥ ८ ॥ संसारचक्रमाये चक्रधर ! क्रियास्ते वीर्य महासुरगणोऽस्थिकुलानि शैलाः । नाड्य: सरित्समुदयास्तरवश्च रोम जीयादिदं वपुरनिर्वचनीयमीश ! ।। ९ ।। [स्कन्धः -- २ - संसारेति । अयि चक्रधर ! ईश! सर्वनियन्तः ! संसारो जननमरणादिदुःखं, तदेव परिवृत्तिसाम्याचक्रं ते क्रिया : अभिज्ञाभिवदनोपादानार्थक्रियारूपाः । मह- तामसुराणां गणः समूहः तव वीर्य पराक्रमः | तवास्थिनखानि अस्थिकुलानीति वा पाठः, शैलाः पर्वताः । नाड्यः सिराः सरित्समुदया नदीततयः | रोम तनूरुहाणि तरयो वृक्षाः । चोऽनुक्तसमुच्चये । इदम् ईदृशं बपुरनिर्वचनीयम् अपरिच्छेद्यं जीयात् सर्वोत्कर्षण सहाविष्कुरुतादित्यर्थः ॥ ९ ॥ । एवं विश्वमूर्युपासनासिद्धये भगवद्र्षं विमृश्यास्यामुपासनायामधिकारिण आह— ईदृग् जगन्मयव पुस्तव कर्मभागां कर्मवसानसमये स्मरणीयमाहुः । तस्यान्तरात्मवपुषे विमलात्यने ते वातालयाधिप ! नमोऽस्तु निरुन्धि रोगान् ।। १० ।। ईद्यगिति । ईदृग् उत्तप्रकारं तव जगन्मयवपुः बिरारूपं कर्मभाजां कर्माव सानसमये स्मरणीयमाहुः । कर्माणि श्रवणस्मरणकीर्तनादीनि भक्त्यङ्गानि भज- न्तीति कर्मभाज: साधनभक्त्यधिकारिणः तेषां कर्मणः षोडशोपचारायाः पूजाया अवसानसमये स्मरणीय स्मर्तु शक्यम् । तदन्या निष्कलोपासना शरीराभिमानि- भिरशक्येत्यर्थः । तदुक्तमर्जुनायें विश्वरूपं प्रदर्थ 'मय्येव मन आधत्स्व' (गी. १२.८) इति, 'अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते' (गी. १२.५) इति च । एवं त्रिगुणात्मक विश्वमूर्युपासकः क्रमाच्छुद्धसत्त्वमयमूर्युपासनायामधिक्रियत इ- १, 'स्याम' ख. पाठः, ९. 'मणि' क. पाठ:. ३, 'य' भगवान् वि' ख, पाठः,