पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बिराङ्देहस्य जगदात्मत्ववर्णनम् । माया विलासहसितं श्वसितं समीरो जिह्वा जलं वचनमीश! शकुन्तपङ्क्तिः । सिद्धादयः स्वरगणा मुखरन्ध्रमग्नि- देवा भुजाः स्तनयुगं तव धर्मदेवः ॥ ६ ॥ दशकम् -- ६.] मायेति । तव विलासहसितं लीलास्मितं माया । समीरो वायुः श्वसितं श्वा- सः । तव जिह्वा जलम् । हे ईश ! ईश्वर ! तव वचनं शकुन्तपङ्क्तिः पक्षिसमूहः। सि- द्धादयः सिद्धविद्याधरचारणादयः तव स्वरगणाः स्वराणां श्रुतिभेदभिन्ना गणाः षड्- जादयः । मुखरन्ध्रमास्यम् अग्निः । देवा इन्द्रादयस्तव भुजाः । धर्मदेवः देवतामूर्तेि- धर्मस्तव स्तनयुगम् ॥ ६ ॥ पृष्ठं त्वधर्म इह देव! मनः सुधांशु- रव्यक्तमेव हृदयाम्बुजमम्बुजाक्ष ! | कुक्षि: समुद्रनिवहा वसनं तु सन्ध्ये शेफ: प्रजापतिरसौषणौ च मित्रः ॥ ७ ॥ पृष्ठमिति । पृष्ठं त्वधर्मः । हे देव! द्योतनशील! इह अस्मिन् रूपे सुधांशुश्चन्द्रः तव मनः | तव हृदयाम्बुजमव्यक्तमेव सत्त्वादिगुणत्रयसाम्यं प्रधानमेव । हे अम्बु- जाक्ष ! समुद्रनिवहाः समुद्रसमूहास्तव कुक्षिः उदरम् । प्रातः सायंसन्ध्ये तु तव वसनं वासोयुगलम् । प्रजापतिर्ब्रह्मा तव शेफ: मेम् | असौ मित्रः तब ऋषणौ ॥ ७ ॥ श्रोणीस्थलं मृगगनाः पदयोर्नखास्ते हस्त्युष्ट्रसैन्धवमुखा गमनं तु कालः । विशादिवर्णभवनं वदनाब्जबाहु चारूरुयुग्मचरणं करुणाम्बु ! ते ॥ ८ ॥ श्रोणीति | तव श्रोणीस्थलं मृगगणाः । ते तव पदयोनेखाः हस्स्युष्ट्रसैन्धव- मुखाः। सैन्धवोऽश्वः | तव गमनं तु कालः | हे करुणाम्बुधे ! एवंविधमूर्युपासनायां माय तव कृपया भाव्यमिति भावः । वदनाब्जं बाहुश्च चारु सुन्दरमूरुयुग्मं च चरणौ च तेषां द्वन्द्वः । प्राण्यङ्गत्वादेकवचनम् । ते तव वदनाब्जादिकं विशादीनां