पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणाये [ स्कन्ध: -- २ ग्रीवेति । तव ग्रीवा कण्ठदेश: महः महर्लोक: जनो जनलोकः तप- स्तपोलोकः फालं ललाट मतमस्य विश्वात्मनः सत्यं सत्यलोकः हे जगन्म- यतनो ! विश्वमूर्ते! एवम् उकप्रकारेणैव जगदाश्रितैरन्यैर्वक्ष्यमाणैश्च निबद्धं सम्पूर्णावयवत्वेन सम्पादित वपुर्यस्य स निबद्धवपुः । हे भगवन् ! तस्मै ते नमोऽस्तु ॥ ३ ॥ जगदाश्रितैरन्यैरपि निवद्रवपुष इत्युक्तम् । तदेव प्रपञ्चयति- त्वह्मरन्ध्रपदमीश्वर ! विश्वकन्द- च्छन्दांसि केशैत्र! घनास्तव केशपाशाः | उल्लासिचिलियुगलं वृहिणस्य गेहूं पक्ष्याणि रात्रिदिवसौ सविता च नेत्रे ॥ ४ ॥ --- त्वदिति । हे ईश्वर ! विश्वकन्द जगत्कारणभूत ! तव ब्रह्मरन्धं द्वादशान्तं, तदेव पदं स्थानं छन्दांसि वेदा एव । घना मेघः तव केशपाशा: । उल्लासिचिलि युगलं शोभनशीलं भ्रूयुगं दुहिणस्य ब्रह्मणो गेहं गृहम् | पक्ष्माणि ऊर्ध्वाधम्तनाक्षि- रोमाणि क्रमाद् रात्रिदिवसौ। नेत्रे नयनेन्द्रिययुगं सविता सूर्यः । चकारोऽनुक्तसमु- चयार्थः । अतः साङ्ख्ययोगौ मकरकुण्डले, आतपत्र विकुण्ठनिलय इत्याद्यन्वे- ष्टव्यम् ॥ ४ ॥ निश्शेषविश्वरचना च कटाक्षमोक्षः कर्णौ दिशोऽश्वियुगलं तब नासिके द्वे । लोभत्र च भगवन्नघरो तरोशे तारागणाच रदनाः शमन दंष्ट्रा ॥ ५ ॥ निश्शेषेति । तव निश्शेषविश्वरचना चतुर्दशलोक निर्माण कटाक्षमोक्षः । तव कर्णौ दिश: । अश्विनौ तव नासिके द्वे । लोभस्तवाधरोष्ठः । त्रपा तवोत्त- रोष्ठ: । हे भगवन् ! तारागणा नक्षत्रपङ्क्तयस्तव रदनाः दन्ताः | शमनो यम- स्तव दंष्ट्रा ॥ ५ ॥ १. 'तैं भगवन् ए' ख. पाठ: २. 'दल घ' क. पाटः ३. 'घा उ' क. पाठः,