पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ६। H विराड्देहस्य जगदात्मत्यवर्णनम् । ६३ i तथाविधस्त्वं निर्मातोऽसि । हे पुराधिप स त्वं सर्वामयात् सर्वस्माद् बाह्या- दाभ्यन्तराच रोगाद् मां त्रायस्व रक्षतादित्यर्थः ।। १० ।। इति विराद्पुरुषोत्पत्तित्रकारवर्णनं पञ्चमं दशकम् | एवं भगवतो बिराडाहृयस्य स्थूलशरीरस्योत्पत्ति प्रदर्श्य सम्प्रत्युपासनार्थं तदवयवभेदकल्पना प्रकारमाह- एवं चतुर्दशजगन्मयतां गतस्थ पातालमीश तव पादतलं वदन्ति | पादोर्ध्वदेशमपि देव ! रसात ते गुल्फद्वयं खड महानतात्मन् ! || १ || ? एवमिति । हे ईश ! एवम् उक्तप्रकारेण चतुर्दश जगन्ति लोकाः तन्म- यतां तन्निर्मितशरीरतां गतस्य तर पादतलं पाताल बदन्ति | उपासनाविदो मुनय इति शेषः | पादोर्ध्वदेशं प्रपतयुगलम् | अद्भुता आत्मानः शरीराणि यस्य सोऽद्भुतात्मा ॥ १ ॥ जते तलातलमथो सुतलं च जानू किञ्चोहमयुग निकायले द्वे । क्षोणीतलं जघनमम्बरमङ्ग ! नाभि- र्वक्षश्व शक्रनिलयस्तव चक्रपाणे ! ॥२॥ जङ्के इति । ऊरुभागयुगलमिति ऊर्वोरोभागो वितलम् ऊर्श्वभागोऽतलामे- त्यर्थः । क्षोणीतलं जघनं कटीतटम् | जघनशब्दानिर्देशस्तु भगवरकटितटस्य सौन्द र्यविवक्षया, ‘पश्चान्नितम्बः स्त्रीकट्याः क्लीचे तु जवनं पुरः' इत्युक्तत्वात् । अङ्ग ! हे भगवन् ! शक्रनिलयः स्वर्गस्तव वक्षश्च हे चक्रपाणे ! ॥ २ ॥ ग्रीवा महस्तव मुखं च जनस्तपस्तु फालं शिरस्तव समस्तमयस्य सत्यम् । एवं जगन्मयतनो ! जगदाधितैर- प्यन्यैर्निबद्धवपुषे भगवन् ! नमस्ते ॥ ३ ॥ .