पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. एवं मायासृष्टिमुक्त्वा तत्कार्यस्य महतः सृष्टिमभिधातुं पुरुषस्वरूपमाह- मायासन्निहितोऽपविष्टवपुषा साक्षीति गीतो भवान् • भेदैस्तां प्रतिबिम्बतो विविशिवान् जीवोऽपि नैवापरः । कालादिमतिबोधिताथ भवता सञ्चोदिता च स्वयं माया सा खलु बुद्धितत्वमजदू योऽसौ महानुच्यते ॥ ४ ॥ मायेति । मायासन्निहितो मायोपाधिक: अप्रविष्टेन तदाश्रयत्वेन बहि: स्थि- तेनानुपहितेन वपुषा स्वरूपेण चोपलक्षितः, एकांशेन मायामवष्टभ्य स्थित इत्यर्थः । अत्र सन्निहितशब्देन परमार्थरूपस्य परमात्मनोऽपरमार्थभूतोपाधिसम्बन्धस्यापरमा- र्थता द्योत्यते । एवम्भूतो भवान्ं सर्वप्रकाशकत्वात् साक्षीति गीतः निगमान्तै- स्तद्विद्भिर्वेति शेषः । भेदैरिति यावदुषाविभेदमात्मानं विभज्य तां मायां तत्कृतानु- पाधीनिति यावत्, प्रतिबिम्बतः प्रतिबिम्वरूपेण विविशिवान् प्रविष्टः शरीरादि- ध्वहमित्यभिमन्यमानो भवानेव जीवोऽपि, नापरः न त्वत्तोऽन्यो जीवः । एवं जी- वेश्वरभेदेन पुरुषस्य द्वैविध्यमुक्त्वा तत्सम्बन्धे महत उत्पत्तिं दर्शयति दीत । कालकर्मस्वभावैः प्रतिबोधिता संक्षोभितरजआदिगुणतया कार्योन्मुख कृता भवता च सञ्चोदिता आहितवीर्या सती सामाया खलु बुद्धितत्त्वमसृजत् सृष्टवती, योऽसौ महानिति महत्तत्त्वमित्युच्यते । महच्छन्दसामानाधिकरण्याय पुंस्त्वनिर्दे शः । तद् बुद्धितत्त्वमिति पूर्वेणान्वयः ॥ ४ ॥ नैनु किमिदं महच्छब्दवाच्यं, बुद्धितत्त्वमिति चेत्, तदपि किं, कीदृशं चास्य स्वरूपमित्याशङ्कायामाह् तत्रासौ त्रिगुणात्मकोऽपि च महान् सत्त्वप्रधानः स्वयं जीवेऽस्मिन् ख निर्विकल्पमहमित्युद्धोधनिष्पादकः । चक्रेऽस्मिन् सविकल्पबोधक महन्तन्त्वं महान् खल्वसौ संपुष्टं त्रिगुणैस्तयोतिबहुलं विष्णो ! भवत्प्रेरणात् ॥ २ ॥ तत्रेति । तत्र मायाकार्येषु असौ महान् स्वयं त्रिगुणात्मकोऽपि सत्त्वप्रधानः प्रकाशबहुलत्वाज्जीवानां समष्टिरेको महान् जीवः । यथा वृक्षाणां समष्टिर्वनम्, एवं १. 'न् विष्णु स' क. पाठ:. २. 'तत्स्वरूपमा' ख. पाठ:. ३. 'ले' क. पाठ:-