पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

र्थः । ननु लीनाश्चेदसन्त एवेत्याशङ्कय विपक्षे बाधकमाह -- नो चेदिति । य- द्वेषामसत्त्वं, तर्हि गगनकुसुमसदृशानामतेषां भूयः प्रलयावसाने सम्भवो न. भवेत् । तञ्चानिष्टम् । अतस्तेषां कारणात्मना सत्त्वमङ्गीकर्तव्यमित्यर्थः ॥ २ ॥ सम्प्रति भगवतो विरामूर्तेरुत्पत्तिप्रकारं दर्शयत्येवामित्यष्टामे:- वञ्च द्विपरार्धकाल विगतावीक्षां सिसृक्षात्मिकां विभ्राणे त्वयि चुभे त्रिभुवनीभावाय माया स्वयम् । मायातः खलु कालशक्तिरखिलादृष्टं स्वभावोऽपि च प्रादुर्भूय गुणान् विकास्य विदधुस्तस्याः सहायक्रियाम् ॥ ३ ॥ एवमिति । एवमुक्कप्रकारेण ब्रह्ममात्रावशेषेण द्विपरार्धकालस्य विगतौ अ- बसाने सति । अत्र चकारो द्विपरार्धपरिमितकाल एवं ब्रह्मणः परमायुरिति दर्श- यति । अयं भावः - अस्मादृशां संवत्सरो देवानामहोरात्र: "मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवत" इति वचनात् सबै ज्ञेयम् । प्राकृतप्रलयस्यापि ब्रह्मायुः परिमि- तद्विपरार्धकालतुल्यपरिमाणत्वमनुमेयमिति । तादृशकालविगमे सति त्वयि ब्रह्मणि सिस्सृक्षात्मिकामीक्षां बिआगे इति । ईक्षां सिसृक्षाचिन्तनादिशब्दवाच्यां मायाप्रे - रणरूपां क्रियामिव बिभ्राणे अङ्गकृतवति सति माया स्वयं चुक्षुभे चलिता ब्र- झणः पूर्येगिव प्रकाशं प्राप्ता स्थिता । किमर्थ, त्रिभुवनीभावाय, प्रागतथावि- थापि पुनस्त्रैलोक्यरूपेण विवर्तितुमित्यर्थः । मायातः एवं क्षुब्धाया मायायाः सका- शात् । खल्वित्यवधारणे | कालशक्तिः ईश्वरस्य कालाख्या शक्तिः । अखिलानां प्राक्तनजीवाननॊमित्यर्थाद्, अदृष्टं सुकृतदुष्कृतरूपं स्वभावोऽपि च प्रादुर्भूयास्या गु गान् रजस्तमः सत्त्वाख्यान् विकास्य साम्यावस्थामपास्य कार्योन्मुखान् कृत्वा तस्या मायायाः सहायकियां त्रिभुवनीभावापत्तये परिकर्म विदधुश्चक्रुः ॥ ३ ॥ , . ९. 'वं ब्र' ख. पाठ:. २. 'संवत्सरै: ? वासरैः षष्टयुत्तरशत त्रयसङ्ख्यापरिमितैः देवानामहो- रात्र उच्यते । तादृशाहोरात्रैर्दिव्य संवत्सरः । तैर्द्वादशसहस्रैश्चतुर्युगं द्विसहस्रैश्चतुर्युगेर्ब्रह्मणोऽहोरात्रः । तादृशाहोरात्रैर्ब्रह्मणः संवत्सरः । पञ्चाशद्भिः संवत्सरैर्ब्रह्मण आयुषोऽर्द्ध परार्द्धमुच्यते । तद्वितयं द्विपरार्द्धमिति । त्वयि' क. पाठः, ३. 'णे अ' ख. पाठ: ४, 'थग्भूय स्थि' ख. पाठः ५. 'नामनुशयितानामह' क, पाठः.