पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

योगसिद्धिवर्णनम् । ३५ शेषवऋदहनोप्मप्राप्तेः प्रागेव वा येथेच्छं तत्र गन्तुं शक्यमेव । अयमन्त्राभि प्राय:- यद्ययं त्वरितं त्वत्पदं जिगमिषुर्भवति, तर्हि विद्युल्लोकावधि गर्नमेन ब्रह्माज्ञयाँ यः कश्चिदमेययपुर्ब्रह्मलोका दाग विद्युलोकमार्गेण शक्रप्रजापतिलोकमा- र्गेण च नीत्वा विरजानदीं तारयित्वा ब्रह्मलोकं प्रापयति । तदा चायं दिव्यश्रीगे भवतीति ॥ १२ ॥ दशकम् - ४] - अथ ब्रह्मलोक प्राप्तानां गतिविध्यमाह तत्र वा तव पदेऽथवा वसन् माकृतप्रलय एति मुक्तताम् | स्वेच्छया खलु पुरापि मुच्यते संविभिद्य जगदण्डमोजसा ॥ १३ ॥ --- तत्रेति । एवं सत्यलोकं प्राप्तोऽयं तत्र ब्रह्मलोके वा अथवा तव पदे विष्णुलोके वा वसनिति । अत्रीयमाशयः सत्यलोकान्तर्भाग एव ब्रह्मविष्णु- गिरिशानां लोका इति त्रयो लोकाः सन्ति । तत्र ब्रह्मविष्णुशिवानामुपासकास्त- तल्लोकं प्राप्य तत्तत्समानान् भोगाननुभवन्ति च । प्राकृतप्रलये सति मुक्ततामेति प्राकृतानां प्रकृतिकार्याणां महदहकारीतन्मात्रपञ्चकादीनां स्वस्वकारणेषु प्रकृष्टो लयो हि प्राकृतप्रलयः तस्मिन् सति ब्रह्मणा सह मुक्तो ब्रह्ममात्रमवतिष्ठते । अथवा स्वेच्छयेति । इदमत्राकूतं यद्ययं भुज्यमानेषु ब्रह्मादिभोगेषु मध्ये विरक्तिमापद्यते, तर्हि महाप्रलयात् प्रागेव विमुच्यते मुक्तो भवति । कथमित्य- त्राह --- जगदण्डं ब्रह्माण्डम् ओजसो संविभिद्य स्वस्य योगवलेनैव ब्रह्माण्डकटाई निर्भिद्य तद्द्वारेत्यर्थः ॥ १३ ॥ ब्रह्माण्डभेदनप्रकारमाह - तस्य च क्षितिपयोमहोनिलयोमहत्यकृतिसप्तकावृतीः । तत्तदात्मकतया विशन् सुखी याति ते पदमनावृतं विभो! ॥ १४ ॥ १. 'गच्छतीति । अ' क. पाठः २. 'तं जीवं व्र' क. पाठ: ३. 'याक' क. पाठ:. त्यैनं वि' क. पाठ: ५. 'तिमा' क. पाठ: ६. 'यमभिप्राय:' क. पाठः, ७. 'नभोगमनु' क. पाठः ८. 'ये प्रा' क. पाठ:. ९. 'रपञ्चतन्मात्राणां मलये ब्रह्मप्रलये मुक्ततामेति च क. पाठः. १०. 'त इत्यर्थः । अ' क. पाठः, 'ते स्वे' ख. पाठ:. ११. 'ति । यदि ब्रह्मादिभोगेषु अतितरां विरकत महाप्रलयात् प्रागेव मोक्षेच्छा जायते तर्हि इत्यर्थः । पुरा खल प्रागे' क. पाठः १२. 'ये ज' क. पाठः १३. 'सा स्वस्थ योगबलेनैव संविभिय ब्रह्माण्डमेदनद्वा' क. पाठः,