पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4


अश्विासरेति । वलर्क्षपक्ष शुक्लपक्षः | अमिं वासरं वलर्क्षपक्षं च गच्छ- तित्वेन प्रामुवन्तीति तथा उत्तरायणजुषा उत्तरायणैषण्मासान् जुषते अधितिष्ठतीति तथा ! अग्न्यायभिमानिभिर्देवरित्यर्थः । : रविपदं ज्योति- चक्रं प्रापितो जीवः भवत्परः भवानीश्वर एव पर: सेव्यतथा प्रधानो यस्य स तथा | मोदवान् तत्तद्देवतातुल्यभोगानुभवेन सन्तोषातिशयवान् भूत्वा ध्रुवपदान्तं ध्रुवलोकावधि ईयते प्राप्नोति । अत्र चेयं प्रक्रियां - अग्न्यादिदेवता ह्येनं जीवमल- लिगतपुत्रिकावत् क्रमाद् ब्रह्मलोकं प्रापयन्ति । तत्र प्रथमममिदेवता स्वेच्छया शरीरमुत्सृज्य सूर्यरश्मिद्वारा निर्गच्छन्तं जीवमझिलोकमार्गेण नीत्वा वीसराभिमा- निदेवताहस्तं प्रापयति । सा शुक्लपक्षाभिमानिदेवताहस्तं प्रापयति । सा चोत्तरा- यणपण्मासाभिमानिदेवताहस्तं प्रापयति । सा संवत्सराभिमानिदेवतहस्तं प्रापयति । सा पुनर्देवलोकमार्गेण नीत्वा वायुदेवताहस्तं प्रापयति । सा च स्वलोकमार्गेणा- दिव्यदेवताहस्तं नयति । सा च स्वमण्डलद्वारा गच्छन्तं जीवं स्वलोकमार्गेण नीत्वा चन्द्रदेवताहस्तं नयति । सी स्वलोकमार्गेण विद्युलोकं प्रीपयति । ततश्च ध्रुवलो- कान्तं गच्छतीति ॥ ११ ॥ आस्थितोऽथ महरालये यदा शेषवऋदहनोष्मणार्यते । ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा ।। १२ ।। आस्थित इति । अथ ध्रुवपदप्राप्त्यनन्तरं महरालये कल्पायुषां भृग्वादी- नामालयभूने महर्लोके आस्थितः सुखेन वसन् यदा यस्मिन् काले शेषवऋदहनो- प्मणा अनन्तस्य मुखात् त्रैलोक्यदाहाय निर्गतोऽमिरुध्र्ध्वशिखो वर्धते, तेन च त्रैलोक्यं दह्यमानं निरीक्ष्य तस्योप्मणा चार्धते पीड्यते तदा भवदुपाश्रयो भव- न्तमश्वरमेव शरणं गतो वेधसः पदं सत्यलोकाख्यम् ईयते प्राप्नोति । भृग्वादिभिः सह जनलोकं तपोलोकं चातीत्य ब्रह्मसभाँ प्रविशतीत्यर्थः । अतः पुरैव बेति , १. 'निवासरवलक्षपक्षान् ग' क. पाठ:. २. 'नतया प्रा' क. पाठ:. ३. 'णं जु' ख. पाठ:. ४. 'दे' क ख. पाठ: ५. 'या ज्ञेया अ' ख. पाठ ६. 'अइरभि क. पाठ:. ७. 'तां सन्त्रि- चाप' क. पा. ८. 'चन्द्रदेवता च स्व' क. पाठ:. ९ 'नय' क. पाठ: पाठ: ५१. 'तस्तत्र सुखेन निद' क. पाठ:. १२. 'दा शे' क. पाठः क. पाठ: १४. 'गत्वा तदुपर्यपि क्रमेण गच्छतीत्यर्थः । ' क. पाठः, १०. 'ये मह' क. १३. 'प्राप्तः सन् वे'