पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ४] योगसिद्धिवर्णनम् । • मैक्षु ज्ञाति मोक्षरसिकः 1 भवति । क्रमेण वेति यस्तु मुक्त्या अनिलं प्रा- मही वाँ भवतीत्यर्थः । द्विविधोऽपि सः योगवश्यं प्राणायाम णवायुं षडाश्रयैः सुषुम्णया सुषुम्नाडीद्वारेण उन्नयतीति, स्वपाणिना गुंदं संपीड्य मूलाधारनाभिहदुरस्तालुमूलभूमध्यरुपैः षडभिराश्रयैः स्थानैः शनैः क्रमादधिरो- पयतीत्यर्थः ॥९॥ एतदन्तमुभयोरपि समानं, पुनर्निरान्य विशेषमाह लिहमपि सन्त्यजनथो लीयते त्वयि परे निराग्रहः । ऊर्ध्वोतः सार्वमेव करणैर्नियते ॥ १० ॥ x - लिङ्केति । निराग्रहः सचमुक्त्यांमही अथो अनिलं भूमध्यमधिरोप्य मुहू तीर्थ स्थित्वानन्तरं लिङ्गदेहमापे सन्त्यजन् स्थूलशरीरं सूक्ष्मशरीरं च सम्यगपुन- रावृत्तये त्यजत् त्वयि परे ब्रह्मात्मके लीयते मूर्धनि विभिद्य | यथा ज्योतिर्ज्योतिषि लीयते, तथा त्वत्सायुज्यं प्राप्नोतीत्यर्थः । अन्यस्य विशेषमाह - ऊर्ध्वलोककुतुकी तु ब्रह्मादिलोकानुभवकौतुकवांश्चेद् भवति, तर्हि मूर्धतः मूर्धनि निर्भिध तद्वारेण करणैरिन्द्रियैः सार्धमेव पञ्चप्राण मनोबुद्धिदशेन्द्रिय समुदायात्मकलिङ्गशरीरेण सह निरीयते * निर्गच्छति । अयमाशयः -- ब्रह्मरन्ध्रान्तःस्थितायाः सुषुम्णानाड्याः सूर्य- रश्मीनां च नित्यसम्बन्धोऽस्ति । अतो जीवस्तद्वारा ब्रह्मरन्ध्रान्तमागत्य निर्यद्भिः सूर्यरश्मिभिः सह बहिर्निर्गच्छतीनि ॥ १० ॥ अनन्तरमग्न्याद्यातिवाहिकदेवतातिक्रमणप्रकारमाह- अनिवासरवलपक्षरुत्तरायणजुवा च दैवतैः । प्रापितो रविपदं भवत्परो मोदवान ध्रुवपदान्तमीयते ॥ ११ ॥ - १. क्षे. पाट: २. 'स्यात् ।' ख. पाठः, ३ 'स्वादिल' ख. पाट:. ४. 'ति । 'लिङ्गदेहमपि सन्त्यजन् नि' स. पाठा. ५. 'तिमिच्छु: अ' ख. पाठ:. ६. 'लस्य भ्रू' ख. पाठ: ७. 'ध्याधिरोपणानन्तरं स्थू' ख. पाठः ८. 'तचा त्व' क. पाठः, 'जनू परे परब्रह्मात्मके त्वयि ली' ख. पाठः ९. 'वलोकनकी' ख, पाठः १०. 'धीनं भित्त्वा त ख. पाठः ११ 'यात्मलि' क. पाठः. ' निरीयते 'ईड् गतौ' दिवादिः ।