पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एतदोषैः परिच्युती सत्यां पुनरपि धारणादिकमारब्धव्यम् । यदा तु चिसमेतैदों- वैदिरहिततयाञ्चलं ब्रह्ममात्रमवतिष्ठते, तदा निर्विकल्पकसमाधिरित्युच्यते 'यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता' (गी. अ. ६. श्लो. १९) इति भगवद्वचना- दिति ॥ ७ ॥ अथ समाधिविजये जीवन्मुक्तता प्राप्तिमाह --- इत्थमभ्यसननिर्भरोल्लसच्चत्परात्मसुखकल्पितोत्सवाः मुक्तभक्तकुल मौलितां गताः सञ्चरेम शुकनारदादिवत् ॥ ८ ॥ । इत्थमिति । इत्थम् उक्तप्रकारेण धारणाध्यानसमाधीनामभ्यसनेन निर्भरम् अतिशयेन उल्लसता आविर्भूतेन त्वत्परात्मसुखेन त्वत्स्वरूपपरब्रह्मानुभवजनितेना- नन्देन कल्पितो निर्वृत्त उत्सवो येषां तथाभूताः सन्तो वयं मुक्तानां भक्तानां च कुलानि समूहाः, तेषां मौलितां प्रधानतां गतः प्राप्ताः सन्त इति । अयं भावः- यद्यपि ब्रह्माण साक्षात्कृते सति अज्ञानतत्कार्यपूर्वसञ्चितकर्म संशयविपर्ययादीनां बा- धितत्वादखिलबन्धरहिता ब्रह्मनिष्ठा भवन्ति, तथापि यावत् प्रारब्धकर्म परिसमाप्यते, तावत् पूर्ववासनया क्रियमाणानि कर्माणि भुज्यमानानि च । यथेन्द्रजालमिदमिति ज्ञानवन्तस्तदिन्द्रजालं पश्यन्तोऽपि परमार्थतो न पश्यन्ति, तद्वदेतेऽपि लोकन्यव- हारं ब्रह्मज्ञानबाधितत्वादपरमार्थतया पश्यन्तः कश्चित् कालं सञ्चरन्ति । सह जी- वन्मुक्तावस्थोच्यत इति तादृशावस्थापन्नाः शुकनारदादयः । हे भगवन् ! वय- मपि यदि भवत्कृपाभाजनं भवेम, तर्हि तादृशाः सन्तः सञ्चरेमेत्यर्थः ॥ ८ ॥ 3 ननु ब्रह्मज्ञानानन्तरं प्रारब्धकर्मावसाने मुक्तिरित्युक्तम् । तदनुपपन्नं, श्रीना- रदादीनां प्रारब्धकर्मनाशाद् देहपातेऽसत्यपि देहान्तरप्राप्तिश्रवणादित्याशङ्कय विजित- समाधीनां तादृशां यथेष्टां गतिमाह सप्तभि:- + - त्वत्समाधिविजये तु यः पुनर्मनु मोक्षरसिकः क्रमेण वा । योगवश्यमनिलं घडाश्रयैरुन्जयत्यज! सुषुम्णया शनैः ॥ ९ ॥ त्वदिति । हे अज! त्वयीश्वरे समाधिश्चित्तैकायचं त्वत्समाधिः, तस्य वि जयो निवातस्थैितदीपवदनायासेन दीर्घकालमबस्थानं, तस्मिन् सति यस्तु पुन- १. 'मनेनोक्त' ख. पाठ.. २. 'ताइ' क. पाठ: ३. 'सा हि जी' ख. पाठ: ४. 'श्शेन दे' ख. पाठः, ५. 'द्द त्वत्समाधीत्यादिस' ख. पाठ:. ६ स्थदी' ख. पाठः,