पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् - ४ ] अष्टायोगवर्णनम् । अ. ६. श्लो. ३४) इति यथा श्रीनारदवचनं, तथेत्यर्थः । एवञ्चं वयं ध्यानयोगे ध्यान रूपे त्वत्प्राप्युपाये निरतास्तत्परोस्त्वदाश्रयास्त्वद्भका भवेमेति शेषः ॥ ५ ॥ 3 अथ समाधिमाशास्ते. --- ध्यायतां सकलमूर्तिमीहशीसुन्मिषन्मधुरताहृतात्मनाम् । सान्द्रमोदरसरूपमान्तरं ब्रह्म रूपमाये ! तेऽवभासते ॥ ६ ॥ ध्यायतामिति | अयि भगवन् ! ते तव ईदृशीं सकलमूर्ति ध्यायताम् उन्मिषन्त्या अभिव्यक्तया मधुरतया तव वपुस्सौभाग्येन हृत आत्मा मनो येषां ते उन्मिषन्मधुरताहृतात्मानः, तेषां सान्द्रमोदरसरूपं सान्द्रानन्दैकरसस्वरूपं ते रूपं स्व- रूपभूतं ब्रह्म आन्तरम् अन्तरिन्द्रियग्राचे ज्ञातृज्ञानज्ञेयरूपेण भेदेनाभेदेन चावभासते। अनेन सविकल्पकसमाधिरुक्तः । तत्र वैवमेव भानप्रकार: । तदुक्तमाचार्येण 'तदा मृण्मयगजादिभानेऽपि मृद्धानवद् द्वैतभानेऽप्यद्वितीयं वस्तु भासत' इति ॥ ६ ॥ अंथ निर्विकल्पकसमाधे: स्वरूपं दर्शयति- तत्समास्वदनरूपिणी स्थिति त्वत्समाधिमयि विश्वनायक ! | आश्रिताः पुरतः परिच्युतावारभेमहि च धारणादिकम् ॥ ७ ॥ - तदिति । तस्य तादृशस्य ब्रह्मणः समास्वदनं सम्यगनुभव:, तद्रूपिणीं स्थितिं ज्ञातृज्ञेययोरपि ज्ञानरूपेणावस्थानं त्वत्समाधिं त्वद्विषयं निर्विकल्पकसमाधि- मित्यर्थः । अत्र चायमेव भानप्रकार: । तदुक्तं 'तदा जलाकाराकारितलवणानवभा- सेन जलमात्रावभासवदद्वितीयवस्तुमानमवभासत' इति । हे विश्वनायक ! जगन्नाथ ! तादृशं त्वत्समाधिमाश्रिता वयं पुनरतोऽस्मात् स्थानात् परिच्युतौ सत्यां भ्रंशे सति धारणादिकं पुर्नश्चारमेमहीति । अयमाशयः - निर्विकल्पकसमाघेर्लयविक्षेपकथावर- सास्वादरूपाश्चत्वारो विघ्नाः संभवन्ति । तत्र लयो निद्रा । विशेषोऽन्यावलम्बनम् । कषायो विषयवासनया स्तभावः | रसास्वादः सविकल्पकानन्दास्वादनम् । १. 'वेद् व' क. पाठ:. 'तादृशानां सा' ख. पाठः, ७. 'यभेदेन च भासत इत्यर्थः ।

---तदा' ख. पाठः,

१९. से ज' क. पाठ:. - २ 'राः सन्तस्त्व' क. पाठ:. ३. 'धिं दर्शयति' क. पाठ.. ५. 'मिति अ' क. पाठ:. ६. 'ह्यतया ज्ञा' क. पाठः, अनेन च स क. पाठः, ८. 'वं भानप्रकार आचार्येणो. 'निर्वि' क. पाठ: १०. र उक्त: तदा' ख. पाठः, १२. 'नरप्यार' क. पाट:. १३. कधी क. पाठः,