पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारायणीये [स्कन्धः - २. मभियम्य पूरकरेचककुम्भकैः वायुंजयं कृत्वा निर्गतानि सलानि रागादीनि येभ्यस्ते निर्मला: | लंदुक्तं 'प्राणायामैदेहेद् दोषान् धारणाभिश्च किल्बिषान्' (श्रीभा. इक. ३. अ. २८. श्लो. ११) इति । अथ अनन्तरम् इन्द्रियाणि विषयाद पह्त्येति प्रत्याहारै उक्तः । भवदुशसने धारणायुत्तरभूमिकायाम् उन्मुखा आरुरुक्षवः सन्तः आत्महे पूर्वभूमिकामेवाभ्यस्यन्तो भवत्कृपां प्रतिपालयाम इत्यर्थः ॥ ३ ॥ क्रमप्राप्तां धारणामाह- अस्फुटे वपुषि ते प्रयव्रतो धारयेम धिषणां मुहुर्मुहुः । तेन भक्तिरसमन्तराईतामुद्हेम भवदधिचिन्तकाः ॥ ४ ॥ -- अस्फुटेति । अस्फुटे अस्पष्टे आपाततः प्रतीते ते तव वपुषि प्रयत्नतो मु- हुर्मुहुर्धिषणां बुद्धिं धारयेम | भत्र बुद्धेर्निद्रादोषे सति तदुद्बोधने प्रयासः प्रयत्नः । तथान्यविषयलम्बने सति तच्छमनं कर्तव्यमिति मुहुर्मुहुरित्युक्तम् । एवं धारणां कॅलयाम इति यत् तेन धारणॉकलनेन भक्तिरेव रसः तं तदनुभावमन्तराद्वैतां चोद्वहेम प्राप्नुयाम । ततो वयं भवदङ्घ्रिचिन्तकाः परमभागवतश्च भवेमेति ॥ ४॥ ध्यानमाह विस्फुटावयवभेदसुन्दरं वपुः सुचिरशीलनावशात् । अश्रमं मनसि चिन्तयामहे ध्यानयोग निरतास्त्वदाश्रयाः ॥ ५ ॥ --- विस्फुटेति । बिस्फुटा बिशेषेण स्पष्टाः श्रीमत्पादादिकेशान्ता अवयवभेदा यस्मिंस्तद् बिस्फुटावयवभेदं तादृशं सुन्दरं स्फुटमतीयमानसौन्दर्य चं त्वद्वपुः सुचिरशीलना दीर्घकालं धारणाध्यानयोरभ्यासः तद्दशाद् अश्रमम् अनायासेन मनसि चिन्तयामहे । 'आहूत इव मे शीघ्रं दर्शनं याति चेतसि' (श्रीभा. स्क. १. १. 'युजित्वा' ख. पाटः २. 'स्तादृशाः सन्तः । त' ख. पाठः. ३. 'रो दर्शितः ।' ख. पाठः ४. 'यावलम्बनेऽपि स' ख. पाठः ५. 'हुद्यीयते । ए' क. पाठ:. ६. 'कुर्यामेति' क. पाय:. 'णानुष्टाने' क. पाठः. ८. 'ताः सन्तो जन्म (भ) जि: स्यामे' ख. पाठ:. ९. 'षतः स्प' ख. पाठ: १०. 'दसु' क. पाठ:. ११. 'च किं तत् त्व' क. पाठः.