पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वितीयस्कन्धपरिच्छेदः । त्रिगुणं द्विगुणं शुद्धसत्त्वैकगुणनिर्गुणम् । द्वितीयोक्तं हरे रूपमुपास्यमुपवर्ण्यते ॥ अथ द्वितीबस्कन्धाश्रयणेन भगवन्मूर्तिभेदतदुपासनसत्कलादि प्रपञ्चयिष्यन् प्रथमं स्वस्य तस्मिन्नधिकारायारोग्यं प्रार्थयते- कल्यतां मम कुरुष्व तावती कल्यते भवदुपासनं यया । स्पष्टमष्टविधयोगचर्या ष्टयाश्च तव तुष्टिमाप्नुयाम् ॥ १ ॥ कल्यतामिति । मम तावती कल्यताम् आरोग्यं कुरुष्व, यया यावत्या कल्यतया भवदुपासनं कल्यते अनुष्ठातुं शक्यते । स्पष्टम् इदं निश्चितम् | यग्रह- मरोगः स्यां, तर्हि आश्चष्टविधस्य यमनियमाद्यष्टाङ्गस्य योगस्य चर्यया अनुष्ठानेन पुष्टया सम्पूर्णाङ्गया | सम्प्रति मदकल्यतैव योगाङ्गवैकल्ये कारणमिति भावः । तव तुष्टि प्रसादम आनुयाम् लभेयै ॥ १ ॥ इदानीं यथाशक्ति करोशीत्याह- ब्रह्मचर्यतादिमिर्चमैरालवादिनियमैश्च पाविताः । कुर्महे दृढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः ॥२॥ ब्रह्मचर्येति । ब्रह्मचर्यस्य दृढता नाम स्त्रीणां दर्शनैस्पर्शनादिवर्जनम् । आदिशब्देनाहिंसासत्यास्तेयादि गृह्यते । आप्लवः स्नानम् । अत्रादिशब्देन मनः- शुद्धिजपतपोहोमादि गृह्यते । एतैर्यमैर्नियमैश्च पाविताः शुद्धाः सन्तैः भवान् परः प्रधानो येषां ते भवत्पराः अमी वयं पङ्कजमाद्यं प्राथमिकं यस्य तत् पङ्कजाद्यं पद्मा- सनं स्वस्तिकासनमन्यद् वा सुखासनं यथासुखमासनं दृढं कुर्महे ॥ २ ॥ आसनदा सति प्राणायाम कुर्म इत्याह- तारमन्तरतुचिन्त्य सन्ततं प्राणवायुमभियस्य निर्मलाः । इन्द्रियाणि विषयादथापहत्यास्महे भवदुपासनोन्मुखाः ॥ ३ ॥ तारमिति | तारं प्रणवम् अन्तः हृदि सन्ततं तैलधाराबद् घण्टानादवच्चा- विच्छिन्नमनुचिन्त्य विजातीयप्रत्ययानन्तरितसजातीय प्रत्ययप्रवाहं कृत्वा प्राणवायु- १. 'येति ॥ ' क. पाठः, २. 'नादि' ख. पाठः, ३. 'न्तः भवत्पराः भ' स.पाठः ४ 'ने कु' क. पाठ: