पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशकम् -- ३! भक्तिप्रार्थना | , —— दित्यत्र प्रमाणमाह -- न चेदिति । व्यासस्योक्तिः भगवद्भक्तिमाहात्म्यप्रतिपाद- कानि पुराणवचनानि तव च वचनम् अर्जुनमुद्धवं च प्रति यदुक्तवानसि, नैगम- वचः वेदवाक्यानि, यद्वा नैगमा वेदज्ञास्तेषां वचनम् | यदि भक्तिरशेषक्लेशौघं न प्रशमयति, तर्खेतत् सकलं प्रायेण रथ्यापुरुषवचनवन्मिथ्यौ अप्रमाणं भवेदिति विपक्षे बाधकस्तर्कः। अवैदिकास्त्वेवं प्रलपन्ति – वेदस्मृतिपुराणवचनानि प्रमाणं न भव- न्ति, वाक्यत्वाद्, रथ्यापुरुषवचनवादति । नेदमनुमानं श्रुतिस्मृतिपुराणवचनामामा- ण्यापादकमित्याह- -न खल्विति । अयमभिप्रायः -- यद्यद्वाक्यं तत्तदप्रमाणमिति इदमनुमानमपि वाक्यत्वादेवाप्रमाणमिति तैर्मुक्तो बाणस्तानेव विध्यति । किञ्च, आचार्यैर्वेदस्य प्रामाण्यं तन्मूलतया स्मृतिपुराणवचनानामपि प्रामाण्यं प्रश्चितम् | अतः श्रुतिपुराणवचनादीश्वरवचनाच सिद्धा भक्तेनोपावता ॥ ५ ॥ - एवञ्च भक्तिरेवोक्तमार्गेण प्रार्थनीयेति वादेतुं तस्या ज्ञानादुत्कर्षमाह भवद्भक्तिस्तावत् प्रमुखमधुरा त्वद्गुणरसात् किमप्यारूढा चेदखिलपरितापमशमनी । पुनधान्ते स्वान्ते विमलपरिबोधोदय मिल- न्महानन्दाद्वैतं दिशति किमतः परम् || ६ || . भवदिति । तावच्छब्दः क्रमार्थः । भवद्भक्तिः प्रमुखे आदौ प्रथमसन्निपाते मधुरा सुखरूपा । कुत इत्यत आह त्वगुणरसादिति । तव गुणेषु श्रवणस्मर- णादिषु जातश्रद्धतयाहादाद | ज्ञानमार्गे तु नैवं, 'यत्तदये विषमिवे'ति भगवद्- चनात् । सा त्वद्गुणरसात् त्वत्कथा श्रवणश्रद्धेयैव किमपि किञ्चिद् आरूढा प्रवृद्धा चेद् यथाभक्ति तत्त्वावबोधस्य विषयविरक्तेरपि सम्भवादखिलपरितापप्रशमनी अखिलस्याध्यात्मिकादेः परितापस्य प्रकर्षेण समूलं शान्ति कर्त्री | पुनरन्ते परि- णामे च स्वयं परिपोषं नीतायां सत्यां स्वान्ते हृदि । विमलपरिबोधेति । विगतं नष्टं मलं शरीराद्यहंममाभिमानरूपमज्ञानं यस्मात् परिबोधात् स बिमलपरिबोधो ब्रह्म॑ वेदं सर्वमिति ज्ञानं, तस्योदयेन मिलत् सहितं महानन्दाद्वैतं महद् ब्रह्मैवानन्दरूपं निरस्तसमस्तोपाधिकतयाद्वितीयं दिशति । भक्तिरेवानुभवपर्यन्तं ब्रह्मज्ञानं दत्त्वा 3 १. 'श्या भवेन त्र' ख. पाठ:. २. 'इतयै' क. पाठ:. ३. 'लेन शा' क. पाठः, ४, 'तो' क. पाठ: ५.श' क. पाठ:.